SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६६ जैनकुमारसंभवं [पञ्चमः गृहीतहस्ते, जगदिनं जगन्नाथं परितो रेजतुः शोभिते, किंलक्षणं जगदिनम् ? बाल्ययौवनवयोवियदन्तर्वतिनं बाल्यं च ३ यौवनं च वय एव वियदाकाशं तन्मध्ये वर्तिनम् । के इव ? पूर्वापश्चिमे करोपगृहीते इव, गतघने अहनि निरभ्रे दिवसे इनं सूर्य वा परितो राजेते ॥ ६ ॥ ६ पाणिपीडनरतोऽपि न पाणी बालयोः स मृदुलावपिपीडत् । कोऽथवा जगदलक्ष्यगुणस्या मुष्य वृत्तमवबोद्धुमधीष्टे ॥ ७॥ पाणि० स भगवान् पाणिपीडनरतोऽपि पाणिपीडनं पाणिग्रहणं, पक्षे पाणेः पीडनं व्यथनं तत्र रत आसक्तोऽपि २ बालयोः सुमंगलासुनंदयोः मृदुलौ सुकोमलौ पाणी हस्तौ नापिपीडत् न पीडितवान् , अथवा कः पुमान् जगदलक्ष्य गुणस्य जगतां अलक्ष्यस्वरूपस्य, अमुष्य भगवतो वृत्तं १५ चरित्रं अवबोद्धं ज्ञातुं अधीष्टे समर्थो भवेत् ? अपि तु न कोऽपि ॥ ७ ॥ तत्यजुर्न समयागततारा मेलपर्वणि वरस्य तयोश्च । धीरतां चपलतां न दृशः स्वां, देहिनां हि सहजं दुरपोहम् ॥ ८॥ तत्य० वरस्य श्रीऋषभस्य तयोश्च वध्वोदृशो दृष्टयः २२ खां आत्मीयां धीरतां च पुनश्चपलतां समयागततारामेल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy