SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् योगभाजि संयोगभाजि सति सत्यां च अव्यवस्थ्यं व्यवस्थारहितं स्फुटं प्रकटमूचे वक्ति स्म, “कत्थवि जीवो बलिओ कत्थवि कम्माइं इंति बलियाई" इत्याद्यागमवचनात् ॥ ४ ॥ ३ तत्करे करशयेऽजनि जन्योः , सञ्चरे सपदि सात्त्विकभावैः। सात्विको हि भगवानिजभावं, खेषु संक्रमयतेन न चित्रम् ॥५॥ तत्क० जन्योः वध्वोः सञ्चरे शरीरे सपदि तत्कालं सात्त्विकभावैः अजनि जातं, सात्त्विकभावाश्चामी-तंभः १९ खेदो २ ऽथ रोमाञ्चः ३ खरभेदश्च ४ वेपथुः ५ । वैवयं ६ रोदनं चैव ७ प्रलये ८ त्यष्ट सात्त्विकाः ॥ १॥ व सति ? तत्करे तस्य स्वामिनः करे हस्ते करशये हस्ते स्थिते सति १२ हि निश्चितं । सात्त्विको भगवान्, निजमावं खेषु आत्मीयेषु संक्रमयते, अत्र न चित्रं आश्चर्य । सत्त्वेन धैर्येण चरतीति सात्त्विकः, पक्षे सात्त्विका भावाः पूर्वोक्ताः । सात्त्विको हि १५ सात्त्विकं भावमन्यत्र संक्रमयतीति, अत्र किं चित्रम् ! शब्दच्छलमत्र ज्ञेयम् ॥ ५॥ बाल्ययौवनवयोवियदन्त वर्तिनं जगदिनं परितस्ते । रेजतर्गतघनेऽहनि पूर्वा पश्चिमे इव करोपगृहीते ॥६॥ बाल्य० ते कन्ये, करोपगृहीते करेण पाणिना उपगृहीते २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy