SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६४ जैनकुमारसंभवं [ पञ्चमः मुखं सन्मुखं समवेतुं मिलितुं धावतां सतां, प्राक् पूर्वं अङ्गुलीयकमणिघृणिजालैः अङ्गुलीयकमणीनां मुद्रिकारत्नानां घृणि३ जालैः किरणसमूहैः प्रष्ठपत्तितुल्या अग्रेसरपदातिसदृश तया मिमिले मिलितम् ॥ २ ॥ तत्फलं प्रभुकरग्रहमाप दक्षिणः क्षणफलः क नु वामः ॥ ३ ॥ वाम० कन्ययोर्वामनामनि करे हस्ते स्फुरणं यत् शुभनिमित्तं उदीये उदितम्, 'अङ्गविस्फुरणं नृणां दक्षिणं सर्वकामदं । तदेव शस्यते सद्भिः, नारीणामदक्षिणमिति निमित्तशास्त्रात्, १२ दक्षिणस्तत्फलं तस्य शुभनिमित्तस्य फलं प्रभुकरग्रहणं खामिपाणिग्रहणं आपत् प्राप्तः । इति वितर्के । वामः क्षणफलः उत्सवफलः क्व वर्तते, वामो वामहस्तः प्रतिकूलो वा यः प्रति१५ कूलः स्यात् स उत्सवफलं व प्राप्नोति : अपि तु न कापीत्यर्थः ॥ ३ ॥ १८ वामनामनि करे स्फुरणं यत्, कन्ययोः शुभनिमित्तमुदीये । २१ उत्तराधरतया दधदास्यां, तत्करे वरकरः स्फुटमूचे । अव्यवस्थ्यमधरोत्तरभावं, योगभाजि पुरुषे प्रकृतौ च ॥ ४ ॥ उत्त० वरकरस्तत्करे तयोः सुमङ्गला सुनन्दयोः करे उत्तराघरतया आस्यां अवस्थितिं दधन् सन् अधरोत्तरभावं अधःस्थो - २३ परितया अवस्थानं पुरुषे आत्मनि, च अन्यत्, प्रकृतौ कर्मणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy