SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [चतुर्थः तारुण्येन प्रतिपतिमुखं प्रेरितोन्मादभाजा, बाल्येनेषत्परिचयजुषा जिह्मतां नीयमाना। ३ दृष्टिर्वध्वोः समजनितरामेहिरेयाहिरातः, श्रान्तेः पात्रं न हि सुखकरः सीमसन्धौ निवासः॥७९॥ तारु० वध्वोर्डष्टिः एहिरेयाहिरात आगमनगमनतः श्रमस्य ६पात्रं स्थानं समजनि । किंलक्षणा दृष्टिः ? उन्मादभाजा तारुण्येन यौवनेन पतिमुखं प्रति प्रेरिता । पुनः किंलक्षणा ? ईषत्परिचयजुषा बाल्येन जिह्मतां मन्दतां नीयमाना । हेतुमाह-हि ९ यस्मात् कारणात् सीमसन्धौ निवासः सुखकरो न स्यात् ॥ ७९ ॥ जैनी सेवां यो निर्भरं निर्मिमीते, - भोगाद्योगाद्वा तस्य वश्यैव सिद्धिः। हस्तालेपे त्वत्कं सिषेवे ययोः श्री वृक्षोऽभूदेकोऽन्यस्तयोः किं शमी न ॥८॥ १५ जैनी० यः पुमान् जैनी जिनसत्कां सेवां निर्भरं यथा भवति तथा निर्मिमीते करोति । भोगात् वाऽथवा योगात् तस्य पुंसः सिद्धिर्वश्यैव स्यात् , ययोवृक्षयोस्त्वक् हस्तालेपे तं जिनं १८ सिषेवे सेवतेस्म, तयोर्मध्ये एको वृक्षः श्रीवृक्षोऽभूत् , श्रिया लक्ष्म्या वृक्षः, पक्षे पिप्पलः । अन्यो वृक्षः किं शमी न अभूत् अपि तु अभूत् , एतावता श्रीवृक्षो भोगी ज्ञेयः, यस्य गृहे श्रीः स एव भोगी इति न्यायात् । शमी च शमवान् योगी २२ ज्ञेयः, एवं जिनसेवातो भोगात् योगाच तयोः सिद्धिर्जातेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy