SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् १६१ किं कृत्वा ? उत्प्रेक्ष्यते-इति ध्यात्वा च । इतीति किम् ? आवां नाथं स्वामिनं आयान्तं दृष्ट्वा नोदतिष्ठाव नोस्थिते । नौ आवयोः खस्य खस्य आत्मीयस्य आस्यस्य आविष्कृतिः३ विकृतिः प्रकटीकरणं न संगता न युक्ता ॥ ७६ ॥ लावण्यवारिसरसो दयितादमुष्मात् , पातुं प्रकाशमनलं नयनद्वयं नौ । पानेन तृप्तिरिह चोरिकया न काचि देवं मिथोऽकथयतामपृथुखरं ते ॥ ७७॥ लाव० ते कन्ये अपृथुखरं मन्दखरं यथा भवति तथा९ मिथः परस्परमेव कथयताम् । एवमिति किम् ? अमुष्मात् दयितात् भर्तुः सरसः सरोवरात् , लावण्यवारिप्रकाशं प्रकटं पातुं नौ आवयोनयनद्वयं लोचनयुगलं अनलं असमर्थम् । १२ इह चौरिकया च पाने काचित् तृप्तिनं ।। ७७ ॥ शैशवावधिवधूद्वयदृष्ट्यो थापलं यदभवदुरपोहम् । तत्समग्रमुपभर्ट विलिल्ये, ऽध्यापकान्तिक इवान्तिषदीयम् ॥ ७८॥ शैश० वधूद्वयदृष्ट्योः शैशवावधि बाल्यादारभ्य यत् १८ चापलं दुरपोहं दुस्त्याज्यं अभवत् । तच्चापलं समग्र उपभर्तृ भर्तुः समीपे विलिल्ये विलयं गतम् । किमिव ? आन्तिपदीयं चापलमिव यथा आन्तिपदीयं छात्रसत्कं चापलं अध्यापकांतिके उपाध्यायसमीपे विलयं याति ॥ ७८ ॥ जै० कु. ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy