SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ टीकयासहितम् [चतुर्थ: गले प्रगृह्य, बलात्कृषंती मंडपमनैष्ट नीतवती । किंलक्षणा स्त्री: अवाप्तवारा प्राप्तावसरा । केव ? प्रकृतिरिव । यथा इवार्थे, यथा ३ प्रकृतिः कर्मरूपा अवाप्तवारा प्राप्तावसरा सती चेतनं आत्मानं इच्छया भवार्णवं संसारसमुद्रं नयति । किंलक्षणं एनं भगवंतं आत्मानं च ! अधीश्वरमपि खामिनम् अधिकं समर्थन ६ मपि ॥ ७ ॥ शतमखस्तमखंडितपौरुषं, सपदि मातृगृहे विहिताग्रहः । अभिनिषण्णवरेन्दुमुखीद्वयं, जिनवरं नवरंगभृदासयत् ॥ ७५ ॥ शत. नवरंगभृत् नवं हर्षरूपरंग (बिभर्ति)धरतीति नव१२ रंगभृत् । शतमख. इन्द्रो विहिताग्रहः कृताऽऽग्रहः सन् , तं जिनवरं सपदि झटिति, मातृगृहे निषण्णवरेंदुमुखीद्वयं अभि प्रामिविष्टवधूद्वयं अभि सन्मुखं आसयत् उपवेशयति स्म । १५ अभियोगे द्वितीया । किंलक्षणं भगवन्तम् ? अखंडितपौरुषं न खण्डितं पौरुषं पराक्रमो यस्य स अखंडितपौरुषम् ॥ ७५॥ दृष्ट्वाऽऽयान्तं नोदतिष्ठाव नाथं, नाथ खास्याविष्कृतिः सङ्गता नौ । ध्यात्वेतीव स्वामिनोऽभ्यर्णभावे, ते नीरंगीगोपितास्ये अभूताम् ॥ ७६॥ दृष्ट्वाल अथानन्तरं ते सुमंगलासुनंदे खामिनोऽभ्यर्णभावे २२सामीप्ये नीरंगीगोपितास्ये पट्टयुगलाच्छादितवदने अभूताम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy