________________
सर्गः] जैनकुमारसंभवं १५९
समाधिनिधौतधियां न तादृशां,
स्वभावभेदे विषया प्रभूष्णवः ॥ ७२ ॥ अपि० प्रभुः खामी प्रवृत्तार्यविधिरपि समाचीर्णाविधिरपि । वधूद्वयीदिक्षया सुमंगलासुनंदयोर्दिदृक्षया विलोकनेच्छया नोदमनायत उत्सुको नाभवत् । समाधिनितधियां संतोषाधि. समाधिना धौतबुद्धीनां तादृशां विषयाः स्वभावभेदे न प्रभूष्णवः । समर्था न स्युः ॥ ७२ ॥ तदीयलावण्यरुचोरिवेय॑या,
शरावयुग्मं लवणाग्निगर्भितम् । पुरो विमुक्तं सुदृशाम्रदिष्ट सो
ऽनलोच्छसत्पर्पटलीलयाहिणा ॥ ७३ ॥ तदी० स भगवान् सुदृशा स्त्रिया पुरो अग्रे विमुक्तं शराव- १२ युग्मं, अनलोच्छसत्पर्पटलीलया अनलेन वैश्वानरेण उच्छासेन यः पर्पटस्तस्य लीलया अहिणा चरणेन अम्रदिष्ट मृदितवान् , किंविशिष्टं शरावयुग्मम् ? उत्प्रेक्ष्यते तदीयलावण्यरुचोस्तस्य १५ भगवतो लावण्यकान्त्योरीय॑या क्रोधनेन लवणामिगर्भितम् ॥ ७३ ॥ प्रगृह्य कौसुंभसिचा गलेऽवला,
१८ बलात्कृत्येनमनैष्ट मण्डपम् । अवाप्तवारा प्रकृतिर्यथेच्छया,
भवार्णवं चेतनमप्यधीश्वरम् ॥ ७४ ॥ .. प्रगृ० अबला स्त्री एनं भगवन्तं कौसुंभसिचा कौसुंभवस्त्रेण २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org