________________
१५८ टीकयासहितम् [चतुर्थः कुंठगता करौ च कण्ठश्च करकंठास्तेषां कुंठता जिह्मता करकंठकुंठता विमुच्यताम् ॥ ६९ ॥ षभिः कुलकम् ॥ ३ जगद्वरेऽत्रार्घमुपाहरद्वरे,
यथेक्षिता सा हरिणा सकौतुकम् । स्त्रियोंऽतिकस्था धवलैस्तथा जगुः,
क्वचिद्भवद्विस्मृतिशङ्कया किमु ॥ ७० ॥ जग० सा देवांगना जगद्वरे विश्वप्रशस्ये अत्र वरे तथा उपाहरत् अढौकयत् । किंविशिष्टा सा ! हरिणा इन्द्रेण सकौतुक९ मीक्षिता, अन्तिकस्थाः समीपस्थाः, स्त्रियो धवलैः तथा जगु
यंतिम । किमु इति संशये, कचिद्भवद्विस्मृतिशंकया भवंती विस्मृतिस्तस्याः शंकया जगुः ॥ ७० ॥ १२ स.पस्पृशे हृद्यपि दुर्लभे पर
स्त्रिया तथा च्छेकधिया कृतसितम् । - अमुं कथंचिदधिबिन्दुमर्घत१५ श्युतं विनच्मीति गृहीतदंभया ॥ ७१ ॥
स० छेकधिया चतुरबुद्ध्या तया देवांगनया कृतस्मितं यथा भवति तथा स भगवान् हृद्यपि पस्पृशे स्पृष्टः । किंलक्षणे १८ हृदि ? परस्त्रिया दुर्लभे दुःप्रापे । अपिशब्दोप्येनमेवार्थ द्योत
यति । किंविशिष्टया तया ? इति गृहीतदंभया अमुना प्रकारेणातगृहीतमायया । इतीति किम् ? हे खामिन् अमुं दधिबिन्दु २१ कथंचिदर्घतश्च्युतं पतितं विनच्मि पृथक् करोमि ॥ ७१ ॥
अपि प्रवृत्तार्यविधिर्वधूद्वयी- ..... दिदृक्ष्या नोदमनायत प्रभुः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org