________________
सर्गः ]
जैनकुमारसंभवं
१५७
क्रियते त्वं स्थालं समानय । हे चित्रिणि वक्रदन्तत्वात् स्तनयोः समत्वात् मधुगन्धत्वात् वक्रकेशत्वाच्च चित्रिण्युच्यते, चित्रिणी आश्चर्यकारिणी वा तस्याः संबोधने हे चित्रिणि ! त्वं अत्र ३ स्थले दूर्वा, च अभ्यत्, दधि निधेहि धेहि निवेशय । हे सुलोचने ! शोभनानि लोचनानि यस्यास्तस्याः संबोधनम् । त्वं चन्दनद्रवं संचितु संचितं कुरु । हे बुद्धिबन्धुरे ! ६ बुद्ध्या बन्धुरा मनोज्ञा तस्याः संबोधनम् । त्वं शरावयुग्मं धर । हे गति मंथरे ! गत्या मंथरा अलसा तस्याः संबोधनम् । त्वं मंथं मन्थानकं गृहाण | हे जगज्जनेष्टे ! विश्वजनानामिष्टाभीष्टा तस्याः संबोधनम् | त्वं युगं गृहाण । हे पेशले ! मनोज्ञे त्वं मुशलं गृहाण | लग्मलक्षणः क्षणः कालविशेषः समासीदति आसन्नः स्यात् । वरो द्वारि कियच्चिरं कियत्कालं अवतिष्ठते । अवयोगात् १२ आत्मने पदमत्र ज्ञेयम् । हे हलाः सख्यः इह जगति, निजे आत्मीये, उग्रशस्त्रे उत्कटायुधे, कुसुमव्रजे पुष्पसमूहे, जनोष्मणा लोकबाष्पेन ग्लानिं शोषमुपागते सति, महाबले - १५ नापि मनोभुवा कामेन, अत्र देवे कथं प्रभविष्यते कथं समर्थीभविष्यते । किंविशिष्टे अत्र ? भवान्तके भवः संसारो महेशो वा तस्य अन्तके यमप्राये भवेन कामो निर्जितः १८ भवस्यापि जेता अयं कामेन कथं जेष्यते इति व्यंग्यम् । एष मरुत् पवनश्चन्दनद्रवस्य घनत्वं दृढत्वं आपाद्य सौरभ परिमलं किं न मुष्णाति, अपितु मुष्णात्येव तत् तस्मात् कारणात् उलूलपूर्वाय धवलध्वनि पूर्वकाय वरार्थकर्मणे करकंठ- २३
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org