________________
।
सर्गः] जैनकुमारसंभवं १५५
न दिव्ययाऽरंजि स रंभया प्रभु,
हरेनटः शिक्षितनृत्यया यथा । नभस्खता नर्तितयाग्रतोरण
स्थया यथाऽरण्यनिवासया तया ॥ ६३ ॥ न० स प्रभुर्दिव्यया देवलोकसत्कया रंभया तथा न अरंजि । किंलक्षणया रंभया ! हरेरिन्द्रस्य नटैः शिक्षितनृत्यया यथा ६ नभखता वायुना नर्तितयाऽग्रतोरणस्थया तोरणाग्रस्थयाऽरण्यनिवासया, रंभया कदल्यारंजि ॥ ६३ ॥
समानय स्थालमुरुस्तनस्थले,
निधेहि दूर्वा दधि चात्र चित्रिणि । सुलोचने संचितु चन्दनद्रवं,
शरावयुग्मं धर बुद्धिबन्धुरे ॥ ६४॥ १२ गृहाण मंथं गतिमन्थरे युगं,
जगजनेष्टे मुशलं च पेशले । क्षणः समासीदति लग्नलक्षणः,
कियच्चिरं द्वारि वरोऽवतिष्ठताम् ॥ ६५ ॥ इहोगशस्त्रे कुसुमबजे निजे,
जनोष्मणा म्लानिमुपागते हलाः। १८ महाबलेनाऽपि मनोभुवा भवां
तकेऽत्र देवे प्रभविष्यते कथम् ॥ ६६ ॥ घनत्वमापाद्य मरुन चन्दन
द्रवस्य मुष्णाति किमेष सौरभम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org