SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५४ दीकयासहितम् [चतुर्थ मुक्ता याः खसख्यस्तासां नियंत्रणा अयसी लोहमयी, अर्गला अभवत् ॥ ६०॥ ३. कलागुरुः स्वस्य गतौ यथाशयं, समूह्यमानः पुरुहूतदन्तिना । मुखं मुखश्रीमुखितेंदुमण्डलः, स मण्डपस्याप दुरापदर्शनः ॥६१॥ कला० स भगवान् मण्डपस्य मुखं आप प्राप । किंविशिष्टो भगवान् ? पुरुहूतदन्तिना ऐरावणेन यथाशयं यथाभिप्राय ९ समूह्यमानो धार्यमाणः । हेतुमाह-पुनः किंविशिष्टो भगवान् ! खस्य गतौ आत्मनः गतौ कलागुरुः कलाचार्यः । ऐरावणेन प्रभोः पार्चे गतिः शिक्षिता अतः प्रभुः तस्य कलागुरुः । १२ पुनः किंविशिष्टः ? मुखश्रीमुखितेन्दुमण्डलः, मुखश्रिया मुखितं लक्षणया जितं इन्दुमण्डलं चन्द्रमण्डलं येन स मुख श्रीमुखितेन्दुमण्डलः, दुरापदर्शनः दुर्लभदर्शनः ॥ ६१ ॥ १५ अथावतीर्येभविभोः ससंभ्रम, प्रदत्तबाहुः पविपाणिना प्रभुः। मुहूर्तमालंब्य तमेव तस्थिवान् , श्रियः स्थिरस्पतिवचः सरन्निव ॥ ६२ ॥ अथा० अथानन्तरं प्रभुः श्रीऋषभदेवः पविपाणिना इन्द्रेण ससंभ्रमं प्रदत्तबाहुः सन् इभविभोः ऐरावणात् अवतीर्य २१ तमेव इन्द्रं आलंब्य मुहूर्त तस्थिवान् स्थितः । उप्रेक्ष्यते, इतिवचः स्मरन्निव, इतीति किम् ? स्थिरस्य श्रियः स्युरिति २३वचनात् ॥ ६२ ॥ १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy