SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं किंलक्षणा नाकतटाकाः ! प्रबुद्धपद्मा विकसितकमला नाननादिषट्पदा अपितु नादिषट्पदा गुंजद्ममराः, द्वौ नौ प्रकृतमर्थ गमयतः, उदारवृत्ताश्च वृत्ताकाराः सुरसार्थान् ३ देवसमूहान् तोषयन्तीत्येवंशीलाः, कल्याणगिरौ सुवर्णाचले स्थिताः ॥ ५३॥ अभर्मभृत्यश्चलितेऽर्हति प्रभाः, प्रभाकरः स्वा विनियुक्तवांस्तथा । यथा वृथाभावमवाप नो दिवा, न तापमापत्सत जान्यिका अपि ॥ ५४॥ ९ अभ० प्रभाकरः सूर्यः अर्हति श्रीऋषभे चलिते सति खा आत्मीयाः प्रभाः तथा विनियुक्तवान् व्यापारितवान् , किंलक्षणः प्रभाकरः ? अभर्मभृत्यः सेवकः । यथा दिवा. दिनं १२ वृथाभावं न अवाप न प्राप्तः, जान्यिका अपि तापं न आपत्सत न प्राप्तवन्तः ॥ ५४॥ तथा प्रसन्नत्वमभाजि मार्गगे, जगत्रयत्रातरि मातरिश्वना । यथा दृगान्ध्यं न रजस्तनूमतां, चकार धर्माबु च चिल्किदं वपुः ॥ ५५॥ १८ तथा० मातरिश्वना वायुना जगत्रयत्रातरि जगत्रयरक्षके मार्गगे सति तथा प्रसन्नत्वममाजि, यथा रजः तनूमतां प्राणिनां हगान्ध्यं न चकार । च अन्यत् । घाबु धर्मजलं च वपुः शरीरं चिल्किदं पित्सिलं न चकार ॥ ५५॥ . १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy