SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५० १२ टीकया सहितम् इतीरयंतीव सुरैः करे धृता, पुरोगतामस्य गताष्टमङ्गली ॥ ५२ ॥ ३ प्रसि० सुरैर्देवैः करे धृता 'दप्पण १, भद्दासण २, बद्धमाण ३, वरकलस ४, मच्छ ५, सिरिवच्छ ६, । सत्थिय ७ नंदावत्ता ८, कहिया अठ्ठठ्ठमंगलगा' ॥ १ ॥ एवंविधा आग६ मोक्ता अष्टमंगली अस्य भगवतः पुरोगताम् अग्रेसरत्वं गता प्राप्ता । उत्प्रेक्षते इतीरयंतीव ईदृक् कथयंतीव । इतीति किम् ? किल इति सत्ये, मंगलाख्यया एको ग्रहः प्रसिद्धो वर्तते, परे ९ आदित्याद्या अष्टावपि ग्रहास्ते तव मङ्गलाय भवन्तु ॥ ५२ ॥ प्रबुद्धपद्मानननादिषट्पदा, उदारवृत्ताः सुरसार्थतोषिणः । पुरोऽस्य कल्याणगिरिस्थिता स्तुतिव्रता दधुनकतटाकसौहृदम् ॥ ५३ ॥ [ चतुर्थ:: प्रबु० स्तुतिव्रता भटा अस्य जिनस्य पुरोऽग्रे नाकतटाक१५ सौहृदं नाकतटाकानां स्वर्गसत्कसरोवराणां सौहृदं सादृश्यं दधुः । किंलक्षणाः स्तुतित्रताः ? प्रबुद्धपद्मानननादिषट्पदाः, प्रबुद्धपद्मसमानेषु आननेषु मुखेषु नादिनः शब्दायमानाः षट्पदाः १८ छंदोविशेषा येषां ते प्रबुद्ध पद्मानननादिषट्पदाः । पुनः किंल० उदारवृत्ता उदाराणि वृत्तानि कवित्वानि येषां ते उदारवृत्ताः । पुनः किं० ? सुरसार्थतोषिणः, सुरसैः शोभनरसैरथं तोषयन्ति इत्येवंशीलाः सुरसार्थतोषिणः । पुनः किंल० ? कल्याणगिरि२२ स्थिताः शुभवाचिवाण्यां स्थिताः । नाकतटाकस्याथ विशेषणानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy