SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं तिलोत्तमा निर्जरपुंजरंजना र्थिनी कलाकेलिगृहं ननर्त यत् । सुरैस्तदंगद्युतिरुद्धदृष्टिभिः, प्रबभूवभूवे तदवेक्षणेऽपि न ॥५०॥ तिलो. तिलोत्तमा यत् ननर्त यत् नृत्यं चकार । किलक्षणा तिलोत्तमा ? निर्जरपुंजरंजनार्थिनी देवसमूहस्य रंजने ६ आर्थिनी । पुनः किंलक्षणा ? कलानां केलिगृहं क्रीडास्थानं अत्र रूपकात् गृहशब्दस्य न स्त्रीत्वम् । तदंगद्युतिरुद्धदृष्टिभिस्तस्यास्तिलोत्तमाया अङ्गकान्त्या रुद्धलोचनैः सुरैः तदवेक्षणेऽपि तस्य ९ नृपस्यावलोकनेऽपि न प्रबभूवभूवे न समर्थीभूयते स्म ॥५०॥ अचालिषुः केऽपि पदातयः प्रभोः, पुरो विकोशीकृतशास्त्रपाणयः। अमूमुहत्कि विबुधानपि भ्रमः, स जन्ययात्रेत्यभिधासमुद्भवः ॥५१॥ अचा० केऽपि देवाः प्रभोः खामिनः पुरोऽग्रेऽचालिषुश्च १५ लिताः। किंलक्षणा सुराः ? विकोशीकृतशस्त्रपाणयः, प्रत्याकाररहितशस्त्रहस्ताः । स सर्वप्रसिद्धो जन्ययात्रेत्यभिधासमुद्भवो विवाहयात्रोत्पन्नः, पक्षे संग्रामयात्राया उत्पन्नो भ्रमः, किं १८ विबुधान् देवान् विदुषोऽपि वा किं अमूमुहत् मोहयति स्म किम् इति संशयः ॥ ५१॥ प्रसिद्ध एकः किल मङ्गलाख्यया, ... ग्रहाः परेऽष्टावपि मङ्गलाय ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy