SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] जैनकुमारसंभव १४७ हृदि कामो नोत्पन्न इति भावः । किंलक्षणः ध्वनिः ? समग्रवाग्वैभवघस्मरः सर्ववचनविलासस्य घस्मरो भक्षकः । स्मरध्वजानि वाद्यानि, स्मरस्य ध्वजाश्चिह्नानि वा, तेषां व्रजः समूहः स्मरं ३ जीवयितुं युक्तमपक्रमते परं स एव अवाप्तमूर्च्छऽभूत् ततो मूर्च्छितं स्मरं कथं जीवयितुं क्षमः स्यादिति व्यंग्यम् ॥ ४५ ॥ सुपर्वगन्धर्वगणादुणावलीं, पिबन्निजामेव न सोऽनुषत्तराम् । अभूत्पुनर्न्यसुख एव दोष्मतां, पा स्वकोशे परहस्तगे न किम् ॥ ४६ ॥ सुप० स भगवान् सुपर्वगन्धर्वगणात् देवगन्धर्वसमूहात्, निजामेव गुणावलीं आत्मीयामेव गुणश्रेणिं पिबन् सन् अनुषतरां न अतिशयेन अनुष्टा, पिबन्निति अत्यादरात् श्रवणं पान - १२ मुच्यते । पुनः परं न्यग्मुख एव अधोमुख एवाभूत्, दोष्मतां बलवतां खकोशे आत्मीयभाण्डागारे परहस्तगे अन्यहस्ते गते सति किं त्रपा लज्जा न, अपि तु स्यादेव, स्वकीयाः सारभूता १५ गुणाः यदि परहस्तगताः स्युस्तदा कथं त्रपा न स्यादिति कवेर्भावः ॥ ४६ ॥ मुदश्रुधारा निकरैर्घनायिते, सच्चये कांचनरोचिरुर्वशी । प्रणीतनृत्या करणैरपप्रथतडिल्लताविभ्रममभ्रमण्डले ॥ ४७ ॥ मुद० कांचनरोचिरुर्वशी देवनर्तकी अभ्रमंडले आकाश- २२ Jain Education International For Private & Personal Use Only १८ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy