________________
सर्गः] जैनकुमारसंभवं
१४५ वर० शची इन्द्राणी सुरीषु देवीषु पुरःसरी अग्रेसरी सती वरस्य श्रीऋषमदेवस्य धवलैः कल्पद्रुमकामधेनुचिंतामणिकामकुम्भप्रभृतिदृष्टान्तयुतं यं औदार्यधैर्यगाम्भीर्यमाधुर्यादिगुणं जगौ । गायति म, तत्र तत्र हीनोपमायां खं अपराधिनं अवेत्य ज्ञात्वा (किं !) न शुशोच । अपि तु शोचते स्म ॥ १२ ॥
फलानि यासामशनं धुभूरुहां,
सुधारसैः पानविधिस्तदुद्भवैः । उलूलगानैः प्रमदः सुधाभुजां,
भुजान्तरीयोऽपि मुमूर्छ कौतुकम् ॥४३॥ १ फला० यासां देवांगनानां द्युभूरुहां कल्पवृक्षाणां फलानि अशनं भोजनं वर्तते, यासां सुधारसैरमृतरसैः पानविधिः स्यात् । तदुद्भवैः ताभ्यो देवाननाभ्यः उद्भवैः जातः उलूलगानैर्धवल-१२ गानैः सुधाभुजां देवानां भुजान्तरीयोऽपि हृदयसंबध्यपि प्रमदो हर्षः मुमूर्छ मूछों प्राप । तत्कौतुकं ज्ञेयम्-भुजान्तरं हृदयं दृढं वर्ण्यते, तज्जातप्रमदोऽपि दृढ एवास्तु, दृढस्य च मूर्छा५ कथमिति अपिशब्दो द्योतयति । कोऽर्थः ? अमृतरसभोजिनीभ्यः अमृतरसपायिनीभ्यो देवांगनाभ्यो जाता धवला अतिअमृतमयाः स्युः । सुधाभुजां अमृतभोजिनां प्रमदोऽपि मूच्छा ।। कथमामोति ? परमेवंविधे सत्यपि धवलैर्यत्प्रमदो हर्षों मुमूर्छ, तत्कौतुकं ज्ञेयम् । पक्षे मुमूर्च्छ वृद्धि प्राप्त इति भावः । देवानां फलाशनं. अमृतपानं, देवानामपि सुधाभोजित्वं लोकरून्या ज्ञेयम् , अन्यथा कावलिकाहारस्य निषिद्धत्वात् ।। ४३ ॥ १॥
जै० कु. १०
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org