SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [चतुर्थः न मारतारुण्यविभुत्वयोगजा भिमानघोरासवघूर्णितेक्षणः॥४०॥ ३ प्रभुः० अथानन्तरं प्रभुः श्रीऋषभदेवः प्रतस्थे परिणेतुं चलितः । किं कुर्वन् प्रभुः । बुधे विदुषि खधैर्यतः आत्मीयधीरत्वात् रक्तिविरक्तिसंशयं रागवैराग्यसंदेहं समेधयन् ६ सामस्त्येन वर्धयन् । पुनः किंलक्षणः प्रभुः ? न मारतारुण्यविभुत्व योगजाभिमानघोरासवर्णितेक्षणः, मारः कन्दर्पः तारुण्यं यौवनं विभुत्वं प्रभुता तेषां योगादुत्पन्नो योऽभिमानरूप एव घोरो ९ रौद्रो आसवो मदिरा तेन न पूर्णितेक्षणः; न घूर्णितलोचन इत्यर्थः ॥ ४०॥ अमाति लावण्यभरे खभावतो ऽप्यमुष्य देहे किमुतोत्सवे सदा । स्थितानुपुष्टं लवणं सुरांगनो चितं समुत्तारयतिस काचन ॥४१॥ १५ अमा० काचन सुराना अनुपृष्टं भगवतोऽनुपश्चात् स्थिता __ सत्ती लवणं उचितं योग्यं समुत्तारयति स्म । क सति : अमुष्य . देहे खभावतोऽपि लावण्यभरे लावण्यसमूहे आभाति सति, १८ तदा उत्सवे किमुत किमुच्यते ॥ ४१ ॥ वरस्य दृष्टान्तयुतं पुरस्सरी, सुरीषु यं यं धवलैर्गुणं जगौ। न तत्र तत्र खमवेत्य किं शची, . शुशोच हीनोपमयापराधिनम् ॥ ४२ ॥ २२ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy