SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् १४१ स्फुरन् करो हस्तो यस्य स दान विधिस्फुरत्करः । पुनः किंलक्षणो ऐरावणः ? प्रगूढचारः प्रगूढश्वारो गतिर्यस्य सः, पक्षे प्रगूढाधाराश्चरपुरुषा यस्य स प्रगूढचारः ।। ३४ ॥ क्रमोनतस्तंभचतुष्टयांचितः, शुभंयुकुंभद्वितयं वहन् पुरः। गवाक्षकल्पश्रुतिरग्रदन्तको, जगाम यो जंगमसौधतां श्रियाः॥ ३५ ॥ क्रमो० य ऐरावणः श्रियो लक्ष्म्या जङ्गमसौधतां चलदावासत्वं जगाम । किंविशिष्टः ऐरावणः सौधं च ? क्रमोन्नतस्तंभचतु-९ यांचितः क्रमाश्चरणा एवोन्नता उच्चैस्तरास्तंभास्तेषां चतुष्टयेन युक्तः, पुनः किंकुर्वन् ! पुरोऽग्रे शुभंयुः शुभसंयुक्तं कुंभद्वितयं कुंभस्थलयुगलं वहन् , पुनः किंविशिष्टः ? गवाक्षकल्पश्रुतिर्ग-१२ वाक्षसदृशकर्णः। अग्रदन्तकः अग्रे दन्ता एव दन्तका यस्य । सौधमपि क्रमेण उन्नतस्तंभचतुष्टयांचितं स्यात्, पुरः कुंभद्वितयं कलशद्वितयं वहति गवाक्षयुक्तं स्यात्, अग्र्याः प्रधाना १५ दन्तका घोटकाकारकाष्ठानि यत्र तत् एवंविधं च स्यात्, एवं हस्तिसौधयोः सादृश्यं ज्ञेयम् ॥ ३५॥ वृषध्वजेशानविभोः पवित्र्यते, सदासनं किं मम नो मनागपि । चटूक्तिमाद्यस्य हरेः प्रमाणय निवेति तं वारणमारुरोह सः॥ ३६॥ वृष० स भगवान् वारणं गजमारुरोह चटितः, किं कुर्वन् ? २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy