SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४० जैनकुमारसंभवं [चतुर्थः व्यसिसयद्यत्कटकान्मदाम्बुभिः, क्षरद्भिराबद्धजवा यमी न कम् ॥ ३३ ॥ ३ अथा० अथानन्तरं पुरन्दरः तस्य पुरो अग्रे अभ्रमूपति ऐरावणं __ आनयत् । किंविशिष्टं अभ्रमूपतिम् ? कृताचलेन्द्रभ्रमं कृतो ऽचलेन्द्रस्य हिमाचलस्य भ्रमो येन स कृताचलेन्द्रभ्रमस्तं कृता६ चलेन्द्रभ्रमं, श्वेतवर्णत्वात् । यमी यमुना कं पुरुषं न व्यसिस्मयत् कं न विस्मापयतिस्म अपि तु सर्वमेव । किंविशिष्टा यमी यत्कटकात् यस्य कपोलात् , पक्षे कटकात् पर्वतमध्यप्रदेशात् ९क्षरद्भिर्मन्दांबुभिर्मन्दजलैः आ सामस्त्येन बद्धजवा बद्धवेगा। हिमवतो गङ्गा प्रभवति नतु यमुनेत्याश्चर्यम् ॥ ३३ ॥ अगुप्तसप्तांगतयाप्रतिष्ठित स्तरोनिधि नविधिस्फुरत्करः। प्रगूढचारः सकलेभराजतां, दधौ य आत्मन्यपरापराजिताम् ॥ ३४ ॥ १५ अगु० य ऐरावण आत्मनि विषये अपरापराजिताम् अपरैः अन्यैः अपराजितां अनिर्जितां सकलेभराजतां सकलेषु समस्तेषु इभेषु हस्तिषु राजतां राजत्वं दधौ । किंलक्षणो ऐरावणो १८ राजा च ? अगुप्तसप्तांगतया प्रतिष्ठितः । अगुप्तानि प्रकटानि शुंडापुच्छमेण्टपादाश्च सप्तांगानि, पक्षे खाम्यमात्यसुहृत्कोश राष्ट्रदुर्गबलानि चेति सप्त राज्यांगानि तद्भावेन प्रतिष्ठितः। पुनः २१ किंलक्षण ऐरावणः ? तरोनिधिस्तरोवेगः पक्षे बलं तस्य निधिः, पुनः किंलक्षणः ? दानविधिस्फुरत्करः, दानं मदजलं फलवत्वं २३ तद्विधौ स्फुरन् करः शुंडादण्डः, पक्षे दानवितरणं तस्य विधी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy