SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् उपर्युपर्यात्तविभूषणे विभौ, तथा निपेतुस्त्रिदशाङ्गनादृशः ॥ ३१ ॥ यथा० त्रिदशाङ्गनादृशो देवाङ्गनादृष्टय आत्तविभूषणे ३ गृहीतालङ्करणे विभौ खामिनि उपरि उपरि तथा निपेतुः पतिताः । यथा भ्रमर्यो विकखरे कमले, यथा विहन्यः पक्षिण्यः फलिते महीरुहे वृक्षे निपतन्ति । पूर्ववृत्ते भूषणानां ६ दूषणत्वमारोपितं, अत्र तु भूषणकृता शोभा आरोपिता परं विचित्रा कविव्यावर्णना, यथा भक्तामरस्तवे 'वक्त्रं क ते' इति वृत्ते चन्द्रबिम्बस्य निन्दा कृता, 'नित्योदयमिति' वृते पुनरपि ९ चन्द्रबिम्बोपमा रोपिता ॥ ३१ ॥ हिरण्यमुक्तामणिभिर्निजश्रिय चिराच्चितायाः फलिनत्वमाप्यत । अलङ्कृते नेतरि नाकिनां करैः, प्रसाधनाकर्मणि कौशलस्य च ॥ ३२ ॥ हिर० नेतरि स्वामिनि अलङ्कृते सति हिरण्यमुक्तामणिभि- १५ हिरण्यैः सुवर्णैर्मुक्ताभिर्मणिभिश्च चिरात् चितायाः सञ्चिताया निजश्रियः फलिनत्वं सफलत्वं आयत प्राप्तम् । यद्भुहे सुवर्णमुक्तामणयः स्युस्तत्रैव लक्ष्मीर्वसतीति प्रसिद्धिस्ते व १८ लक्ष्मीवास इति भावः । च अन्यत्, नाकिनां देवानां करैर्हस्तैः प्रसाधनाकर्मणि मण्डनविधौ कौशलस्य फलिनत्वं फलवत्वं प्राप्तम् ॥ ३२ ॥ अथानयत्तस्य पुरः पुरन्दरः, कृताचलेन्द्र भ्रममभ्रमूपतिम् । Jain Education International १३९ For Private & Personal Use Only १२ २१ २३ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy