________________
१४२
जैनकुमारसंभवं [चतुर्थः उत्प्रेक्ष्यते-आद्यस्य हरेः सौधर्मेन्द्रस्य इतिवदुक्तिं चाटुवचनं प्रमाणयन्निव प्रमाणं कुर्वन्निव । इतीति किम् ? हे वृषभध्वज ३ त्वया ईशानविभोरीशानेन्द्रस्य आसनं सदासनं पवित्र्यते पवित्रीक्रियते, ममासनं मनागपि स्तोकमपि किं नो पवित्र्यते, ईशानेन्द्रस्य वाहने वृषभः, भगवानपि वृषभध्वज इति ६ भावः ॥ ३६॥
शरद्घनः कांचनदण्डपाण्डुरा
तपत्रदंभात्तडिता कृताश्रयः । जनैरदानेति जुगुप्सितो जिनं,
न्यसेवताध्येतुमुदारतामिव ॥ ३७॥ शर० कांचनदण्डपाण्डुरातपत्रदंभात् कांचनस्य दण्डो १२ यस्य तत् काञ्चनदण्डं, एवंविधं पाण्डुरातपत्रं श्वेतच्छत्रं तस्य दम्भात् तडिता विद्युता कृताश्रयः सन् शरद्घनः शरत्कालमेघः
यं भगवन्तं न्यसेवत, सेवते स्म । सुवर्णवणे विद्युत्सदृशः छत्र १५च मेघसदृशमिति । किं कर्तुम् ? उत्प्रेक्ष्यते-उदारतां औदार्य
गुणमध्येतुं शिक्षितमिव । किंलक्षणः शरद्घनः ? जनैलोंकैरदाता
कृपण इति जुगुप्सितो निंदितः गर्हितः 'गर्जति शरदि न १८वर्षति' इति वाक्यात् ॥ ३७॥
विहाय नूनं शशिनं कलंकिनं,
प्रकीर्णकच्छमधरः करोत्करः। शुचिं बभाजोभयतस्तदाननं,
- विधुं विधाय प्रणतिं मुहुर्मुहुः ॥ ३८ ॥ २३ विहा० नूनं निश्चितं कलंकिनं कलंकयुक्तं शशिनं चन्द्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org