SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् १३७ अवाप हेमाऽपटुसंज्ञमध्यहो, यदंगदत्वं तदुपासनाफलम् ॥ २७॥ जग० केन पुंसा इति न इयते न मन्यते, अपि तु ३ सर्वेणापि (मन्यते एव)। इतीति किम् ? क्षितौ पृथिव्यां तदीयौ भुजौ जगत्रयीरक्षणदीक्षितौ जगत्रयीरक्षणाय दीक्षितौ, लक्षणया समर्थों वर्तते । हेतुमाह यत् यस्मात् कारणात् हेम ६ सुवर्ण अपटुसंज्ञमपि, अहो इति आश्चर्ये, अंगदत्वं बाहुरक्षत्वं, पक्षे देहदायकत्वं अवाप । किविशिष्टं अंगदत्वम् ! तदुपासनाफलं तयोर्भुजयोः सेवाया फलम् ॥ २७ ॥ प्रकोष्टकन्दं कटकेन वेष्टितं, विधाय मन्येऽस्य ररक्ष वासवः । सपंचशाखोऽमरभूरुहो यदु भवस्त्रिलोकीमदरिद्रितुं क्षमः ॥२८॥ प्रको० अहं एवं मन्ये, वासव इन्द्रः अस्य भगवतः प्रकोष्टः कलाचिका तस्याः कन्दं कटकेन कङ्कणेन, पक्षे सैन्येन वेष्टितं १५ विधाय कृत्वा ररक्ष । यदुद्भवः यस्मात् प्रकोष्टकंदादुद्भव उत्पत्तिर्यस्य स यदुद्भवः, स सर्वप्रसिद्धः, पञ्चशाखो हस्तः पक्षे सपंचशाखः पञ्चशाखासहितः अमरभूरुहः कल्पवृक्षस्त्रिलोकी १८ त्रिभुवनं अदरिद्रितुं अदरिद्रीकर्तुं क्षमः समर्थों वर्तते। यस्मात् कन्दात् एवंविधः कल्पद्रुमः स्यात् स कथं न रक्ष्यत इति भावः ॥ ८॥ तलं करस्यास्य परं परिष्कृता खिलाङ्गसाधोर्यदभूदभूषितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy