________________
१३.६
जैनकुमारसंभवं
[ चतुर्थः
अजन्येन उत्पातेन जन्यं जनितं फलं जगे उक्तम् । इतीति किम् ? इह रविद्वये सूर्यद्विके ईक्षिते दृष्टे सति वज्रिणामपि ३ इन्द्राणां श्रीलक्ष्मीः क्षिता क्षयं गता, सूर्यद्वये चन्द्रद्वये च दृष्टे राज्ञां उत्पातः स्यादिति भावः ॥ २५ ॥
उदारमुक्तास्पदमुल्लसद्गुणा, समुज्वला ज्योतिरुपेयुषी परम् । तदा तदीये हृदि वासमासदतेऽक्षरीरिव हावरी ॥ २६ ॥
उदा० तदा तस्मिन्नवसरे हारवल्लरी तदीये हृदि तस्य भगवतो हृदये वासं आसदत् प्राप्ता । केव ! अक्षरश्रीरिव मोक्षलक्ष्मीरिव यथा अक्षरश्रीर्वते दीक्षायां सत्यां तदीये हृदि वासं आसंदयति १२ ‘सिद्धिमिच्छन्ति योगिन' इति भावः । किंविशिष्टा हारवल्लरी उदारमुक्तास्पदं उदाराणां मुक्तानां मौक्तिकानां आस्पदं स्थानम् । पुनः किंविशिष्टा ! उल्लसद्गुणा उल्लसत् गुणो दवरको यस्याः १५ सा उल्लसद्गुणा । पुनः किंविशिष्टा ? समुज्ज्वला निर्मला परं ज्योतिरुपेयुषी, परं प्रकृष्टं ज्योतिः तेजः तं प्राप्ता । अक्षरश्रीः किंलक्षणा ? उदारमुक्तास्पदम् उत् ऊर्ध्व आरो गमनं येषां ते १८ उदारा एवंविधा मुक्ताः सिद्धास्तेषां आस्पदं स्थानम् । पुनः किंलक्षणा ? उल्लसन्तो गुणा ज्ञानदर्शनादयो यस्यां सा उल्लसद्गुणा । पुनः किंविशिष्टा ? परं ज्योतिः परब्रह्मसत्कं २१ तेजःप्राप्ता समुज्ज्वला च ॥ २६ ॥
२३
जगत्त्रयीरक्षणदीक्षितौ क्षितौ, भुजौ तदीयाविति केन नेष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org