SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् १३३ महेशितुः सतां गणैः समूहैः शालिनः शोभमानस्य वृषध्वजस्य वृषभलांछनस्य, पक्षे महेशितुः ईश्वरस्य सद्गुणशालिनः सन्तो विद्यमाना नंदिवंदिप्रमुखा गणास्तैः शालिनः । ईश्वरगणाश्चामी, ३ तद्यथा-महाकालः पुनर्बाणो लूनबाहुर्वृषाण कः । वीरभद्र सुधीराजो हेरकस्तु कृतालकः ॥ १ ॥ अथ चंडो महश्चंडः कुशंडी कंकणप्रियः । मजनो छागः छागमोघा महाघसः ॥ २ ॥६ महाकपाल आलावः संतापनविलेपनौ । महाकपोलः पेलेजः शङ्खवर्णः शरस्तपः ॥ ३ ॥ उत्कामा की महाजंभः श्वेतपादः खरांडकः । गोपालो ग्रामणी घंटाकर्ण फर्ण कराध्वमौ ।। ४ ॥९ एभिः गणैः शोभमानस्य ईश्वरस्य शिर मे गङ्गाकल्लोलाः स्युः । अत्र तु सर्वांगे वस्त्रछत्रं गङ्गाम्लोल्ला अभूवन्निति विशेषः ॥ २० ॥ कचान्विभोर्वासयितुं सुगन्धयः, प्रयेतिरे ये जलकेतकादयः । अमीषु ते प्रत्युत सौरभश्रियं, न्यधुन मोघा महतां हि मङ्गतिः ॥ २१ ॥ कचा० जलशब्देन वालकः केनकादयश्च ये सुगन्धयः पदार्थाः विभोः स्वामिनः कचान् केशान् वासयितुं प्रयेतिरे १८ उपक्रान्ताः । ते कचा अमीषु जलकेनकादिषु प्रत्युत विशेषतः सौरभश्रियं न्यधुनिक्षिप्तवन्तः हि निश्चितं महता. सङ्गतिर्मोघा निःफला न वर्तते, भगवन्तो देहस्य जन्मप्रभृति २१ खभावतः सुगन्धित्वात् केशादिवासनं देवैर्व्यवहारार्थमेव कृतम् ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy