SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३२ जैनकुमारसंभवं [चतुर्थः स्तोककालेन भाविनं पुत्रफलोदयं भरतबाहुबलिप्रभृतिपुत्र. रूपफलोदयमवोचन् । किंलक्षणं अमुम् ? हृन्मूर्ध्नि सुमांचितं ३ हृदये मस्तके च मन्दारसहितं हरिचन्दनपारिजातादिकुसुमैः पूजितं हृन्मूर्ध्नि इति 'प्राणितूांगाणाम्' (सि० ३।१११३७) इति सूत्रेण एकत्वं ज्ञेयमत्र जगत्प्रियं विश्वाभीष्टम् ॥ १८ ॥ ६ अदःकचश्योतनवारिविप्लषो, निपीय यैश्चातकितं तदामरैः । ततः परं तेषु गतं सुधावधि, स्वधिक्लियामेव ययों रसान्तरम् ॥ १९॥ अदः० तदा तस्मिन्नवसरे यैरमरैः देवैः अदःकचश्च्योतनवारिविप्लुषः अमुष्य भगवतः कचाः केशास्तेषां श्योतने क्षरणे १२वारिविप्लुषो जलबिन्दून् निपीय पीत्वा चातकितं बप्पीहवदा चरितं, ततःपरं तेषु अमरेषु सुधावधि अमृतावधि रसान्तर अपरो रसः, खकीयां धिक्रियां निन्दामेव ययौ प्राप्तः ॥१९॥ १५. महेशितुः सद्गणशालिनो वृष ध्वजस्य मौलिस्थितितोऽधिकं बभुः। अमुष्य सर्वाङ्गमुपेत्य सङ्गमं, विशुद्धवस्त्रच्छलगाङ्गवीचयः ॥२०॥ महे० विशुद्धवस्त्रच्छलगानवीचयो विशुद्धेन निर्मलवस्त्रच्छलेन ये गानाः गङ्गासम्बन्धिनो वीचयः कल्लोलाः ते २. अमुष्य भगवतः सर्वाङ्गसङ्गमं उपेत्य प्राप्य मौलिस्थितितो मस्तकस्थितेरधिकं बभुः, शोभिताः । किंलक्षणस्य अमुष्य १३ भगवतः ? महेशितुः महांश्वासौ ईशिता च महेशिता तस्य Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy