________________
सर्गः]
टीकया सहितम्
१३१
जला० जलानि पानीयानि स्नानविधौ लाने कार्यमाणे तद्विशदानसङ्गतस्तस्य भगवतो निर्मलाङ्गसंसर्गात् पवित्रतां प्रपेदिरे प्रपन्नानि । आदरसङ्गहीतया तयैव पवित्रतया तै लै-३ रधुनापि विश्वं पवितुं पवित्रीकतुं प्रभूयते समर्थीभूयते ॥१६॥
सुवस्त्रदान्तोदकलेपभासुरः,
समन्ततः सङ्गतदिव्यचन्दनः । घनात्ययोद्वान्तजलं मरुद्गिरेः,
सिताभ्रलिप्तं कटकं व्यजैष्ट सः ॥ १७ ॥ सुव० स भगवान् मरुद्रेिः मेरुपर्वतस्य सिताम्रलिप्तं ९ शरत्काले मेघानां शुभ्रत्वात् श्वेताम्रर्लिप्तं कटकं व्यजैष्ट जितवान् विपूर्वकजेर्धातोः 'परावेर्जेः' (सि० ३।३।२८) इति सूत्रेणात्मनेपदम् , किंविशिष्टः सः ? सुवस्त्रदान्तोदकलेपभासुरः १२ सुवस्त्रेण गन्धकाषायिकेन दान्तो ग्रस्त उदकलेपस्तेन भासुरो देदीप्यमानः । पुनः किंविशिष्टः सः ? समंततः सर्वतः संगतं मिलितं दिव्यचन्दनं गोशीर्ष चन्दनं यस्य सः । किंलक्षणं मेरोः १५ कटकम् ? घनात्ययोद्वान्तजलं, घनात्यये शरत्काले उद्वान्तं शुष्कं जलं यस्य तद् धनात्ययोद्वान्तजलम् ॥ १७ ॥
अमुं पृथिव्यामुदितं सुरद्रुमं,
निरीक्ष्य हृन्मूर्ध्नि सुमांचितं सुराः। जगत्प्रियं पुत्रफलोदयं वयः,
क्रमादवोचनचिरेण भाविनाम् ॥ १८॥ २१ अमुं० सुरा देवा अमुं भगवन्तं पृथिव्यां उदितं सुरद्रुमं कल्पवृक्षं निरीक्ष्य वयःक्रमात् षट्लक्षपूर्वानन्तरं अपि अचिरेण २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org