SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३. जैनकुमारसंभवं [चतुर्थः विमानमानज तमंजसा वरं, वरेण्यतैलैः प्रथमः पुरन्दरः ॥१४॥ ३ मुहू० प्रथमः पुरन्दरः इन्द्रो वरेण्यतैलैः प्रशस्यतैलैस्तं वरं भीऋषभं अंजसा सामस्त्येन विमानं निरहंकारं यथा भवति तथा आनंज अभ्यनक्ति स्म । क सति ? नाकिमण्डले देवसमूहे ६इति उद्विरि उद्तवाचि सति । इतीति किम् ? मुहूर्त आसीदिति आसन्नं भवति, बिडौजसा इन्द्राणां किं प्रमादिता पमादकारिता ॥ १४ ॥ ९ तनूस्तदीया पटवासकैरभा द्विशेषतः शोषिततैलताण्डवा । अकृत्रिमज्योतिरमित्रमत्र न, १२ निहिक्रिया स्यादहिरंगगापि किम् ॥ १५॥ तनु० तदीया तस्य खामिनस्तनूः शरीरं पटवासकैः पिष्टातैः शोषिततैलताण्डवा सती शोषितां शोषं नीतं तैलस्य तांडवं १५ नृत्यं यत्र सा एवंविधा सती विशेषतो भात् दिदीपे, अत्रास्मिन् भगवति बहिरंगगापि बाह्यशरीरस्थापि निहिक्रिया किं अकृत्रिमा ज्योतिषः अमित्रं विरोधिनी न स्यात् अपि तु स्यादेव । १४ कोऽर्थः ! भगवतः शरीरे यन्मुख्यं तेजस्तत्तैलाभ्यंगेन आवृतमभूत् , पिष्टातैस्तैले शोषिते तत्पकटं जातमिति भावः ॥ १५॥ जलानि यां स्नानविधौ प्रपेदिरे, पवित्रतां तद्विशदाङ्गसङ्गतः । तयैव तैरादरसंगृहीतया धुनापि विश्वं पवितुं प्रभूयते ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy