SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [चतुर्थः पिनद्धकोटीरकुटीरहीरक प्रभास्य मौलेरुपरि प्रसृत्वरी। प्रतापमेदखिमदां विवस्वतो ऽभिषेणयन्तीव करावली बभौ ॥२२॥ पिनद्ध० पिनद्धो बद्धः कोटीरो मुकुटः स एव कुटीरं ६ स्थानं, तत्र ये हीरकास्तेषां प्रभा अस्य भगवतो मौलेर्मस्तकस्योपरि प्रसृत्वरी प्रसरणशीला सती बभौ शोभिता । किं कुर्वती? उत्प्रेक्ष्यते प्रतापमेदखिमदां प्रतापेन स्थूलमदां विवखतः ९ सूर्यस्य करावली किरणश्रेणि अभिषेणयन्तीव सेनयाभिसन्मुखं यान्तीव ॥ २२ ॥ सनिष्कलङ्कानुचरः प्रभार्णवं, विगाह्य नावेव दृशा तदाननम् । शिरः पदं पुण्यजनोचितं जनो, ददर्श दूरान्मुकुटं त्रिकूटवत् ॥ २३ ॥ १५ सनि० जनो लोकस्त्रिकूटवत् , शिखरत्रययुक्तं, पक्षे त्रिकूट नामा पर्वतस्तद्वत् , मुकुटं दूराद्ददर्श, किंविशिष्टो जनः ? सनिष्कलङ्कानुचरः निर्दोषानुचरा निष्कलङ्क नुचरास्तैः सह वर्तते १८ यः स सनिष्कलंकानुचरः । पक्षे निष्कं सुवर्ण तेन सह वर्तते, या सा सनिष्का तो लंकां अनुचरतीति सनिष्कलङ्कानुचरः । किं कृत्वा ? प्रभाया अर्णवं समुद्र, तदाननं तस्य भगवतो मुखं नावैव २१ बेडिक येव दृशा अवगाह्य । किंविशिष्टं मुकुटम् ? शिरःपदं शिरसि मस्तके पदं स्थानं यस्य तत् शिरःपदम् , पक्षे शिरसां २३ शिखराणां पदं स्थानम् । पुनः किंविशिष्टम् ? पुण्यजनोचितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy