SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२८ जैनकुमारसंभवं [चतुर्थः भवेत्प्रयाणे भुवि विघ्नकृन्मृगी दृशां नितंबस्तनभारगौरवम् । ३ अधोऽवतारे तु सुपर्वयौवतै स्तदेव साहायककारि चिंतितम् ॥९॥ भवे० मृगीहशीणां नितंबस्तनभारगौरवं प्रयाणमार्गे भुवि ६ पृथिव्यां विघ्नकृद्भवेत् , तु पुनः, सुपर्वयौवतैर्देवयुवतीसमूहैरघोऽवतारे अधःपतने तदेव नितंबादिगौरवं सहायककारि चिंतितम् ॥ ९॥ उपात्तपाणिस्त्रिदशेन वल्लभा, श्रमाकुला काचिदुदंचिकंचुका । वृषस्यया चाटुशतानि तन्वती, १२ जगाम तस्यैव गतस्य विघ्नताम् ॥१०॥ ___ । उपा० काचिद्देववल्लभा श्रमाकुला त्रिदशेन देवेन उपात्त पाणिर्गृहीतहस्ता सती तस्यैव गतस्य गमनस्य विघ्नतां जगाम । १५ किं कुर्वती? वृषस्यया मैथुनेच्छया चाटुशतानि तन्वती कुर्वती, पुनः किंलक्षणा ? उदंचिकंचुका उच्छृसत्कंचुका ॥ १०॥ पुरस्सरीभूय मनाक् प्रमादिनं, क्वचित्कृषन्तीष्वमरीषु वल्लभम् । . वशा वशाः स्युः पथि पादशृंखला, . इति श्रुति केऽपि वृथैव मेनिरे ॥११॥ २१ पुर० केऽपि देवा इति श्रुतिं वृथैव मेनिरे । इतीति किम् वशाः स्त्रियः पथि मागें वशाः पुरुषाणां पादशृङ्खला पादबन्ध२३ नानि स्युः । कासु सतीषु ? अमरीषु देवीषु मनाक् स्तोकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy