SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीकया सहितम् नभोनदीतीरतृणार्पिताननाः, कशाप्रहारैः पथि यानवाजिनः ॥ ७ ॥ प्रभो० यानवाजिनः पथि मार्गे कशाप्रहारैः प्रत्युत विशे- ३ षात् सादिनां अश्ववाराणां श्रमं वितेनिरे चक्रुः, किं कुर्वतां अश्ववाराणाम् ! प्रभोः श्रीऋषभदेवस्य विवाहाय रयाद्वेगात् यियासतां गन्तुमिच्छताम् । किंलक्षणा यानवाजिनः ! नभो - ६ नदीतीरतृणार्पिताननाः- नभोनदी आकाशगंगा तत्सत्कतीरे यानि तृणानि तत्र क्षिप्तमुखाः । आकाशगंगायास्तीरे तृणानि कथमुद्गच्छंतीति केनापि पृष्ठे प्रत्युत्तरमिदम् - यादृशी आंका-९ शगङ्गा तादृशि तृणान्यपि ज्ञेयानि परं लोकरूढ्यैव ज्ञेयम् । उक्तं च । कविशिक्षायाम् 'जले भाव्यं नभोनद्यामं भोजाद्यनदीष्वपि ' इति अग्रतोऽपि व्यावर्णनं न दोषाय ॥ ७ ॥ Jain Education International १२७ मिथो निरुच्छ्वासविहारिणां सुधाभुजां भुजालंकृतिघट्टनात्तदा । मणित्रजो यत्र पपात ते पयः, क्षितिश्च रत्नाकरखानितां गते ॥ ८ ॥ मिथो० तदा तस्मिन्नवसरे मिथो निरुच्छ्वास विहारिणां मिथः परस्परं निरुच्छ्वासविहारिणां श्वासमपि विना चलनशीलानां १८ सुधाभुजां देवानां भुजालंकृतिघट्टनात् भुजांगदघर्षणात् यत्र क्षितिश्च पृथ्वी च मणिव्रजः पपात, ते पयः पानी रत्नाकरखानितां रत्नाकरः समुद्रो रत्नखानिश्च तद्भावं गते प्राप्ते, अत्राप्यनुमानालंकारो ज्ञेयः ॥ ८ ॥ For Private & Personal Use Only १२ १५ २२ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy