________________
१२३
सर्गः] टीकया सहितम् एवं स्नातविलिप्तभूषिततनू उद्धृत्य कन्ये उभे
मध्ये मातृगृहं निवेश्य दिविषद्योषा अदोषासने। गायन्त्यो धवलेषु तद्गुणगणं तद्वक्त्रवीक्षोत्सव- ३ च्छेदानाकुलनिर्निमेषनयनास्तस्थुः स्मरन्त्यो वरम् ॥
एवं० दिविषद्योषा देवांगना वरं स्मरन्त्यः सत्यः तस्थुः । किं कृत्वा ? उभे सुमंगलासुनन्दे कन्ये उद्धृत्य स्नानस्थानात् ६ उत्पाट्य मध्ये मातृगृहं मातृगृहस्य मध्ये अदोषासने निर्दोपासने निवेश्योपवेश्य । किंविशिष्टे कन्ये ? एवं अमुना पूर्वोक्तप्रकारेण स्नातविलिप्तभूषिततनू स्माता विलिप्ता भूषिताऽलंकृता ९ च तनुः शरीरं ययोस्ते । अत्र अग्रेऽपि सन्धिर्न । किं कुर्वन्यो दिविषद्योवाः! धवलेषु तद्गुणगणं तयोः वध्वोः गुणसमूह गायंत्यः । पुनः किंविशिष्टाः ? तद्वक्त्रवीशोत्सवच्छेदानाकुल- १२ निर्निमेषनयनाः, तयोः कन्ययोः वक्त्रस्य मुखस्य वीक्षा अवलोकनं सैव उत्सवः तस्य च्छेदे च्छेदविषये अनाकुले अव्याकुले निर्निमेष निमेषरहिते नयने लोचने यासां १५ ताः तद्वक्त्रवीक्षोत्सवच्छेदानाकुलनिर्निमेषनयनाः । मेषोन्मेषकारिणां जनानां वीक्षोत्सवच्छेदः स्यात् परं तासां खभावनिनिमेषत्वात् नेत्रयोरनाकुलत्वमिति भावः ॥ ८१ ॥ १८
इति अंचलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरि विरचित श्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरि विरचितायां टीकायां श्रीमाणिक्यसुन्दरसूरिशोधितायां तृतीय
सर्गव्याख्या समाप्ता ॥ ३॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org