________________
१२२ जैनकुमारसंभवं
[तृतीयः अजनि जाता । हेतुमाह यत् यस्मात् कारणात् इह नितंबस्थल्यां कांची मेखला तस्याः किंकिणीभिः क्षुद्रघंटिकाभिः ३प्रवल्गच्चतुरतुरंगभूषाघघरीघोषशंका प्रवल्गन्त उच्छलंतश्चतुरा ये तुरगाः अश्वास्तेषां भूषाघधरीणां घोषशङ्का व्यरचि कृता । यत्राश्वा वाह्यते तत्र घर्घरीघोषो स्यादेवेति ६भावः । किंविशिष्टस्य मारभूपस्य ? त्रिभुवन विजिगीषोः त्रिभुवनं जेतुमिच्छोः ॥ ७९ ॥ नखजितमणिजालौ स्वश्रियापास्तपद्मो
गतिविधुरितहंसौ मार्दवातिप्रवालौ । तदुचितमिह साक्षीकृत्य देवीस्तदंही
सपदि दधतुराभां यत्तुलाकोटिवृत्ताम् ॥८॥ १२ नख० इह देवीः साक्षीकृत्य तदही तयोः कन्ययोः क्रमौ
सपदि झटिति यत् तुलाकोटिवृत्तां तुलाकोटिशब्देन नूपुरे पक्षे तुला उपमा तस्याः कोटिः अग्रभागः ततो वृत्तां निष्पन्नां आभां १५शोभा दधतुः, तत् उचितं योग्यम् । एतानि सर्वाणि तदंयोविशेषणानि । किंविशिष्टौ तदंही ? नखजितमणिजालौ नखै
र्जिता मणिसमूहा याभ्यां तौ नखजितमणिजालौ । खश्रि१८ यापास्तपद्मौ खशोभया निराकृतकमलौ । गतिविधुरितहंसौ
गत्या विधुरिता लक्षणया जिता हंसा याभ्यां तौ गतिविधुरितहंसौ । मार्दवातिप्रवालौ मार्दवेन सौकुमार्येण अतिक्रान्ताः
प्रवालाः किसलया याभ्यां तो मार्दवातिप्रवालौ । अत एव २२ जितसर्वोपमानत्वात् तुलाकोटित्वमिति भावः ॥ ८० ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org