SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् १२१ यच्चा० कुम्भो यत् चाक्रिकभ्रमिः चाक्रिकः कुलालः तस्य चक्रोपरि श्रमिः, दिनाधिपतापः सूर्यकिरणतापः, वह्निसेवा पावकावस्थाभवा, पयोवहनं च एतत् मुख्यं कष्टं असोढ सहते ३‍ स्म, तेन पुण्येन तदुरोरुहतां तयोः कन्ययोः स्तनत्वं प्राप्य मणिहारमयोपहारं मणिहारमयं उपहारं पूजां बभाज भजति स्म । 'देहे दुःखं महाफलं' इत्यागमः । अत्र वृत्ते अनुमाना- ६ लंकारो ज्ञेयः, कुंभेन किमपि पुण्यं कृतं तेन हारादिपूजा प्राप्तेति भावः ॥ ७७ ॥ येतयोरशुभतां करमूले, काममोहभटयोः कटके ते । अङ्गुलीषु सुपमामददुर्या, ऊर्मिका ननु भवांबुनिधेस्ताः ॥ ७८ ॥ ये ० ये कटके तयोः कन्ययोः करमूले अशुभतां शोभिते ते काममोहभयोः कटके सैन्ये ज्ञेये । या ऊर्मिका मुद्रिका - स्तयोः कन्ययोः अंगुलीषु सुषमां शोभां अददुर्ददंतिस्म । १५ ननु निश्चितं ता भवाम्बुनिधेः संसारसमुद्रस्योर्मिका लहर्यो ज्ञेयाः ॥ ७८ ॥ ९ Jain Education International त्रिभुवनविजिगीषोमरभूपस्य बाह्या saनिरजनि विशाला तनितंब स्थलीयम् । व्यरचि यदिह कांचीकिंकिणीभिः प्रवल्गचतुरतुरगभूषाघर्घरीघोषशङ्का ।। ७९ ।। त्रिभु० इदं तन्नितंब स्थली तयोः कन्ययोः कटितटस्थली कामराजस्य बाह्यावनिः बाह्यावनिः अश्ववाहनिकाभूमिः २३ मारभूपस्य For Private & Personal Use Only १२ १८ २१ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy