SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ २४ जैनकुमारसंभवं [चतुर्थः ॥ अथ चतुर्थः सर्गः॥ अथात्र पाणिग्रहणक्षणे प्रति क्षणं समेते सुरमण्डलेऽखिले। इलातलयातिथितामिवागता ममस्त सौधर्मदिवं दिवःपतिः ॥१॥ ६ अथा० अथानन्तरं दिवःपतिरिन्द्रः सौधर्मदिवं इलातलस्य पृथ्वीमंडलतलस्य अतिथितां प्राघूर्णतामिवागतां अमंस्त मन्यते स्म । क सति ? अत्र अस्मिन् पाणिग्रहणक्षणे विवाहा९ वसरे अखिले सुरमण्डले देवसमूहे प्रतिक्षणं क्षणं क्षणं प्रति समेते समागते सति ॥ १ ॥ नवापि वैमानिकनाकिनायका, अधस्त्यलोकाधिभुवश्च विंशिनः । शशी रविय॑न्तरवासिवासवा, द्विकाधिका त्रिंशदुपागमनिह ॥२॥ १५ नवा० एकस्य पूर्वमागतत्वात् शेषा नवापि वैमानिक नायका इन्द्राः, च अन्यत् , विंशिनः विंशतिर्मानमेषामिति 'विंशतिनः डिन' ( ) इति सूत्रेण डिनप्रत्ययः इन १८ 'स्युः विंशते स्तेडिते' ( ) अनेन तिलोपः 'डिः' ( ) इत्यंतखरादेरन्त्यस्वरलोपे विशिन् इति । विंशतिसंख्या अधस्त्यलोकाधिभुवः पाताललोकस्य स्वामिनः; शशी चन्द्रः, रविः सूर्यः, व्यन्तरवासिवासवा व्यन्तरेन्द्रा द्विकाधिका त्रिंशत् २२ द्वात्रिंशत् इह मण्डपे उपागमन् आगताः ॥ २ ॥ १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy