________________
सर्गः] टीकया सहितम्
११७ संसर्ग आप्स्यामि प्राप्स्यामि । किंविशिष्टोऽहम् ? मुमुक्षितोऽपि मोक्तमिष्टोऽपि ॥ ६९ ॥
मन्दारमाला मकरन्दविन्दु
संदोहरोहत्प्रमदाश्रुपूरा। दूरागता शैत्यमृदुत्वसारा,
सखीव शिश्लेष तदीयकंठम् ॥ ७॥ मन्दा० मन्दारमाला दूरागता सखीव तदीयं सुमंगलासुनन्दयोः कण्ठं शिश्लेष आलिंगति स्म । किंलक्षणा मंदारमाला ? मकरन्दबिन्दुसंदोहरोहत्प्रमदाश्रुपूरा; मकरन्दबिन्दूनां ९ सन्दोहः समूहः स एव रोहत् प्रवर्धमानः प्रमदाश्रुपूरः हर्षाश्रुपूरो यस्याः सा मकरन्द० । पुनः किंभूता मन्दारमाला ? शैत्यमृदुत्वसारा शैत्यं च मार्दवं च ताभ्यां सारा मनोज्ञा ॥ ७० ॥१२ न्यस्तानि वध्वोर्वदनेऽमरीभि
राभाभरं भेजुरभङ्गरङ्गम् । उद्वेगयोगेऽपि भुजङ्गबल्ले
दलानि सुस्थानगुणः स कोऽपि ॥ ७१ ॥ न्यस्ता० भुजंगवल्लेनागवल्लेदलानि पत्राणि उद्वेगयोगेऽपि उद्वेगः संतापः, पक्षे पूगीफलम् ; तस्य योगेपि आभाभरं शोभास- १८ मूहं भेजुर्भजंति स्म । किंविशिष्टं आभाभरं ? अभंगरंगं अभंगो रंगो स्वर्णरंग एव यत्र तम् । स कोऽपि सुस्थानगुणो ज्ञेयः । किंविशिष्टानि दलानि ? अमरीभिर्देवांगनाभिर्वध्वोः कन्ययोर्वदने न्यस्तानि क्षिप्तानि । एकं भुजंगवल्लेदलानि, द्वितीयं उद्वेग-२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org