SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११६ जैनकुमारसंभवं [ तृतीयः बभार, अन्यापि कुंभाधारेण हृदादिकं तरति । हेतुमाह-यत् यस्मात् कारणात् तत् कुचकुंभयुग्मं परितः समंततः अनु३ षक्ताः लग्नाः मृगनाभिनीला कस्तूरिकावद् या नीलवर्णाः पत्रवयो निरीक्षिता दृष्टाः ॥ ६७ ॥ तनूस्तदीया ददृशेऽमरीभिः संवीतशुभ्रामलमञ्जवासा । परिस्फुटस्फाटिककोशवासा, मी कृपाणीव मनोभवस्य ॥ ६८ ॥ , तनु० अमरीभिर्देवांगनाभिः तदीया तनूः शरीरं दहशे दृष्टा, तनूशब्दो देहवाचकः स्त्रीलिङ्गो ज्ञेयः कन्याद्वये सत्यपि तनूरित्यत्रजातावेकवचनं ज्ञेयम् । किंविशिष्टा तनूः ? १२ 'संवीत शुभ्रामलमंजुवासा' संवीतानि परिहितानि शुभ्राणि उज्ज्वलानि अमलानि निर्मलानि मंजूनि मनोज्ञानि वासांसि यया सा संवीतशुभ्रामलमंजुवासा । उत्प्रेक्ष्यते—- परिस्फुटप्रकट१५ स्फाटिक स्फाटिकमणिमयकोशे प्रत्याकारे कृतवासा मनोभवस्य कामस्य, हैमी सुवर्णमयी कृपाणीव क्षुरिकेव ॥ ६८ ॥ द्वारेण वां चेतसि भर्तुरेष, संश्लेषमास्यामि मुमुक्षतोऽपि । इतीव लाक्षारसरूपधारी, रागस्तयोरंहितलं सिषेवे ॥ ६९ ॥ १८ २१ द्वा० लाक्षारसरूपधारी अलक्तकरसरूपधारी रागस्तयोः कन्ययोरहितलं चरणतलं सिषेवे सेवते स्म । उत्प्रेक्ष्यते इतीव २३ एषोऽहं वां युवयोर्द्वारेण भर्तुः श्री ऋषभदेवस्य चेतसि संश्लेष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy