SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ११५ जहे सुवर्णस्य सुराङ्गनाभिः, सौगन्ध्यवन्ध्यत्वकलंकपङ्कः ॥६५॥ सारां० सुराङ्गनाभिर्देवांगनाभिः सुवर्णस्य सौगन्ध्यवन्ध्य ३ त्वकलंकपंकः सौरभ्यरहितत्वमेव कलङ्कपको जहे स्फेटितः । किं कृत्वा ? एतयोः सुमंगलासुनंदयोः कायं सारंगरागैः प्रशस्यविलेपनैरहो इति आश्चर्ये, सुरभिपरिमलबहुलं विधाय कृत्वा, ६ किंविशिष्टं कायं ? सुवर्णमेव गौरवर्णत्वात् ॥ ६५ ॥ तयोः कपोले मकरीः स्फुटांगी. यद्गन्धधूल्या लिलिखुस्त्रिदश्यः। सरं स्वधार्य मकरः पुरंधी स्नेहेन धावंस्तदिहानिनाय ॥६६॥ तयोः० त्रिदश्यः सुराङ्गनाः, तयोः कन्ययोः कपोले यवंध-१२ धूल्या कस्तूर्या स्फुटांगीः प्रकटरूपा मकरीलिलिखुर्लिखन्ति स्म। मकरः खधार्य खवायं खामिनं स्मरं कन्दर्प, तत् तस्मात् कारणात् इह आनिनाय । किं कुर्वन् मकरः ? पुरंध्रीनेहेन कल- १५ त्रप्रीत्या धावन् कामो मकरध्वज उच्यते, मकरे मकरीस्नेहेन तत्रागते कामोऽपि तत्रागत इति भावः ॥ ६६ ॥ बभार मारः कुचकुंभयुग्मं, क्रीडन् ध्रुवं कान्तिनदे तदङ्गे। यत्पत्रवल्लयो मृगनामिनीला, निरीक्षितास्तत्परितोऽनुषक्ताः ॥ ६७॥ २१ बभार० मारः कन्दर्पः कान्तिनदे प्रभाया हदे तदने तयोः कन्ययोः अङ्गे शरीरे क्रीडन् सन् ध्रुवं निश्चितं कुचकुंभयुग्मं २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy