SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११४ जैनकुमारसंभवं [ तृतीयः ब्जानि मुखकमलानि अस्मेरयद्विकासयति स्म, अन्यान्यन्जानि वर्षाकाले शटित्वा पतंति परमत्र वैपरीत्यमतस्तच्चित्रम् । ३ किं कृत्वा ? तयोः सुमंगलासुनन्दयोः सद्गोत्रयोः सत्प्रधानं गोत्रं ययोस्ते सद्गोत्रे, पक्षे प्रधानपर्वतयोर्मूर्ध्नि मस्तके उदीय उदयं प्राप्य । किंविशिष्टश्चिकुरौघमेघः ? नितंबचुंबी नितम्बं ६ कटितट पक्षे कटकं चुम्बति स्पृशति इति भावः ॥ ६३ ॥ धम्मिल्लमल्लोऽधिगतसरास्त्र मालोऽन्तरालोल्लसितप्रसूनैः। तन्मौलिवासादलवान कस्य, बलीयसोऽप्येजयति स चेतः ॥६४॥ धम्मि० धम्मिल्लमल्लः बद्धकेशकलाप एव मल्लः कस्य १२ बलीयसोऽपि बलवतश्चेतः खान्तं न एजयति स्म अपि तु सर्वस्यापि । किंलक्षणो धम्मिल्लमल्लः ? अन्तरालोल्लसितैः प्रसूनैः पुष्पैरधिगता प्राप्ता स्मरस्य कामस्य अस्त्रमाला शस्त्रश्रेणिर्येन १५ सः । पुनः किंविशिष्टः ? तन्मौलिवासात् तयोः कन्ययोः मस्तके वासात् बलवान् । यतः-स्थानं प्रधानं न बलं प्रधानं स्थानस्थितो गर्जति कातरोऽपि । हे वासुके ! वेद्मि तव प्रमाणं १८ कण्ठस्थितो गर्जसि शंकरस्य ॥ १ ॥ इति स्थानबलं, कामस्य पुष्पबाणत्वात् प्राप्तपुष्पैः शस्त्रबलं च, ततो धम्मिल्लमल्लः कान् न कम्पयतीति भावः ॥ ६४ ॥ सारांगरागैः सुरभि सुवर्ण मेवैतयोः कायमहो विधाय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy