SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११२ जैनकुमारसंभवं [तृतीयः साधुसंगे कोऽपि अविद्यां न मुंचति । हे चलाक्षि ! त्वं इतस्ततः किं पश्यसि । केव ? पामरीव ! यथा पामरी ग्रामीणस्त्री पुरि ३ नगरे निध्यात्यूनीति ध्याता दृष्टा युवानस्तरुणवयसो यया सा निध्यातयूनी इतस्ततः पश्यति ॥ ५८ ॥ हे हला! वधव्यां वधूभ्यो हितां भूषां शृंगारादिकां द्रुतं शीघ्र आनयध्वं, यूयं ६ वरार्थं धृत्वा धवलान् ददध्वम् ॥ ५९॥ चतुर्भिः कलापकम् ॥ अथालयः शैलभिदः प्रियायाः, ___संस्कर्तुकामा वसुधैकरने । निवेश्य कन्ये कनकस्य पीठे, रत्नासनाख्यां ददुरस्य दक्षाः ॥ ६०॥ अथा० अथान्तरं शैलभिद इन्द्रस्य प्रियायाः शच्या आलयः १२ सख्यः संस्कर्तुकामा अलङ्कारं कर्तुमिच्छवः सत्यः कन्ये सुमंगलासुनंदे कनकस्य पीठे सुवर्णस्यासने निवेश्य उपवेश्य अस्य कनकपीठस्य रत्नासनाख्यां ददुः। किंविशिष्टे कन्ये ? वसु१५धैकरनै वसुधायां पृथ्व्यां एकरत्नप्राये । किंविशिष्टा आलयः ? दक्षाः चतुराः । यत्र रत्नं स्थाप्यते तदपि रत्नासनं कथ्यते, रत्नप्रायकन्ये तयोरासनमेतत् , अतो रत्नासनमिदमिति दक्ष१० त्वभावः ॥ ६०॥ __ उभे प्रभौ स्नेहरसानुविद्वे, स्नेहैः समभ्यज्य च संस्नपय्य । २१ लावण्यपुण्ये अपि भक्तितस्ता, न स्वश्रमेऽमंसत पौनरुक्त्यम् ॥ ६१॥ २३. उभे० ता आलयः सख्यो भक्तितः खश्रमे आत्मीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy