________________
सर्गः] टीकया सहितम्
मनोरमे ! मुंचसि किं न लीलाम् , .. अद्याप्यविद्यामिव साधुसंगे। इतस्ततः पश्यसि किं चलाक्षि !,
निध्यातयूनी पुरि पामरीव ॥ ५८ ॥ भूषां वधव्यां द्रुतमानयध्वं, .. ... धृत्वा वरार्थं धवलान् ददध्वम् ।.. . शच्यरितानामिति निर्जरीणां, कोलाहलस्तत्र बभूव भूयान् ॥ ५९ ॥
॥ चतुर्भिः कलापकम् ॥ करोषि० तत्र तस्मिन् मंडपे निर्जरीणां देवीनां भूयान् बहुः कोलाहलो बभूव । किंविशिष्टानां निर्जरीणाम् ? शच्या इन्द्राण्या इति अमुना प्रकारेण ईरितानां प्रेरितानाम् । इतीति १२ हे तन्वंगि! त्वं अंगभंगं किं करोषि ? के च अर्धनिद्राभरे बोधितेव यथार्धनिद्राभरबोधिता जागरिता अंगभङ्गं आलस्यं करोषि, हे कल्याणि ते तव संप्रति अधुनाऽलसत्वं न सांप्रतं न युक्तं, १५ किमिव कार्पण्यमिव यथा उत्सवान्तरुत्सवमध्ये कार्पण्यं न सांप्रतम् ॥ ५६ ॥ हे बाले ! त्वं आलंबितस्तंभ अवलंबितस्तंभ एवमेव किं स्थितासि ? या बाला स्यात् सावष्टंभं नैव गृह्णाति । १८ केव ? जरातेव। यथा जराती जरया पीडिता एवमेव आलंबितस्तम्भं तिष्ठति, हे सलक्षे सुज्ञाने! त्वं अलक्षं किं अन्विष्यसि आलोकयसि, केव साधोदृष्टिरिव यथा साधोः समाधिस्तिमिता २१ समाधानेन निश्चला अलक्ष्यं अन्वेषयति ॥५७ ॥ हे मनोरमे ! त्वं अद्यापि लीलां किं न मुंचसि? कामिव ? अवद्यामिव यथा २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org