________________
११०
जैनकुमारसंभवं [तृतीयः मन्दा० मन्दाकिनी गंगा वरार्थाय वरस्य अर्थकृते दूर्वा समानिनाय । किंलक्षणा दूर्वा ? रोधसि रूढपूर्वा रोधसि तटे पूर्व रूढा रूढपूर्वा अग्रेऽप्युहृताः । पराभिरन्याभिराभिर्दूर्वाभिनवरं केवलं वालेयदन्तक्रकचार्तिहेतोवालेयानाम् रासमानां दन्तक्रकचं दन्तरूपकरपत्रं तदर्तिहेतोः तत्पीडानिमित्तं ६ जिजीवे ।। ५४ ॥
कश्मीरवासा भगवत्यदत्त,
काश्मीरमालेप्यमनाकुलैव । यत्रापि तत्रापि भवन हीदं,
मद्देशनाम त्यजतीति बुद्ध्या ॥ ५५ ॥ काश्मीरवासा भगवती आलेप्यं आलेपनयोग्यं काश्मीरं १२ कुंकुम इतिबुद्ध्या अनाकुलैव अदत्त ददौ । इति इति किम् ? हि निश्चितं इदं काश्मीरकुंकुमं यत्रापि तत्रापि भवन् सन् मद्देश
नाम न त्यजति, यत्तत् कुंकुमं काश्मीरमे वोच्यते ॥ ५५॥ १५ करोषि तन्वंगि! किमंगभंगं,
त्वमर्धनिद्राभरबोधितेव । न सांप्रतं संप्रति तेऽलसत्वं,
कल्याणि ! कार्पण्यमिवोत्सवान्तः ॥ ५६ ॥ आलंबितस्तंभमवस्थितासि, __ बाले जरातेव किमेवमेव ।
अलक्ष्यमन्विष्यसि किं सलक्षे, २२ साधोः समाधिस्तिमितेव दृष्टिः॥५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org