________________
सर्गः] टीकया सहितम्
उपाहरनंदनपादपानां,
पुष्पोत्करं तत्र दिशां कुमार्यः। शिरस्यपुष्पप्रकरस्य शेष
वृक्षवृथा वैवधिकी बभूवे ॥५२॥ उपा० तत्र मण्डपे दिशां कुमार्यः नन्दनपादपानां नन्दनवनवृक्षाणां पुष्पोत्करं पुष्पसमूहं उपाहरन् आनयन्ति स्म । शेषैश्चं-६ पकाशोकपुन्नागप्रियंगुपाटलाप्रभृतिवृक्षैः शिरस्यपुष्पप्रकरस्य मस्तकसंबन्धिपुष्पसमूहस्य वृथा वैवधिकी बभूवे निरर्थक भारवाहकैर्जातम् । अत्र भावे उक्तिः ज्ञेया ॥ ५२ ॥ ९
वध्वोरलंकारसहं सहर्षा,
मणीगणं पूरयति स्म लक्ष्मीः । वारांनिधेस्तद्धनिनश्चिरत्नो,
१२ रत्नोचयः फल्गुरभूचितोऽपि ॥ ५३ ॥ वध्वो० लक्ष्मीः सहर्षा सती मणिगणं रत्नसमूहं पूरयति स्म। किंलक्षणं मणिगणम् ? वध्वोरलंकारसहम् सुमंगला सुनन्दयोर- १५ लंकारसमर्थम् । तद्धनिनः कृपणस्य वारांनिधेः समुद्रस्य चिरनश्चिरकालीनश्चितोऽपि संचितोपि रत्नोच्चयो । समूहः फल्गुनिःफलोऽभूत् ॥ ५३॥
मन्दाकिनीरोधसि रूढपूर्वा
दूर्वा वरार्धाय समानिनाय । । पराभिराभिर्नवरं जिजीवे,
वालेयदन्तक्रकचार्तिहेतोः॥ ५४॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org