SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं वैसारिणचारिमा विसारिणां प्रसरणशीलानां मत्स्यानां चारिमा मनोज्ञता अलम्भि ॥ ४९ ॥ १२ १०८ तथा कथाः पप्रथिरे सुरेभ्यस्त्रिविष्टपे तत्कमनीयतायाः । यथा यथार्थत्वमभाजि शोभाभिमान भंगादखिलैर्विमानैः ॥ ५० ॥ तथा० त्रिविष्टपे त्रिभुवने सुरेभ्यो देवेभ्यस्तत्कमनीयतायाः तस्य मंडपस्य मनोज्ञत्वस्य तथा कथाः पप्रथिरे विस्तृताः । ९ यथा अखिलैः समस्तैर्विमानैः शोभाभिमानभङ्गात् यथार्थत्वं सत्यार्थत्वं अभाजि सेव्यते स्म । कोऽर्थः ? यस्य मंडपस्य शोभया विमानानि निरभिमानानि ( जातानि ) इति भावः ॥ ५० ॥ १५ श्रीदेवता हैमवतं वितन्द्रा, शच्याज्ञया चन्दनमानिनाय । निनिंद स खं मलयाचलस्तु, द्विजिह्वबन्दीकृतचन्दनडुः ॥ ५१ ॥ श्रीदे० श्रीर्नाम्ना देवता वितन्द्रा आलस्यरहिता सती हैमवतं हिमवत्संबंधिनं शच्याज्ञया इन्द्राण्यादेशात् चन्दन१८ मानिनाय । तु पुनः स सर्वप्रसिद्धो मलयाचलः खं आत्मानं निनिंद निन्दितवान् । किंलक्षणो मलयाचल: : द्विजिह्वबन्दीकृतचन्दनद्रुः द्विजिह्वैः सपैर्दुर्जनैर्वा बन्दीकृताश्चन्दनद्रवश्चन्दनवृक्षा यस्य स द्विजिह्वबन्दीकृत चन्दनदुः, दुर्जनहस्तगतं वस्तु २२ पुण्यावसरे व्ययितुं न शक्यते इति भावः ॥ ५१ ॥ [ तृतीयः वैसारिणानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy