________________
सर्गः] टीकया सहितम्
१०७ विभागाः स्तंभोपरिस्थिताः । उत्प्रेक्षते-भविष्यज्जनौघसंमर्दभिया भाविजनसमूहस्य संमर्दभयेन प्रागेव पूर्वमेव संन्यस्तभुवः त्यक्तभुवो देव्यो देवांगना इव । भुवि संमों भविष्यति, अतः३ पूर्वमेव स्तंभशिरसि स्थिता इति भावः ॥ ४७ ॥
सुचारुगारुत्मततोरणानि,
द्वाराणि चत्वारि बभुर्यदये।
देवीषु रुद्धाग्रपथासु रोपाद् .. भ्रूभङ्गभांजीव दिशां मुखानि ॥४८॥ - सु० यस्य मंडपस्य अग्रे चत्वारि द्वाराणि बभुः, शोभि-९ तानि । किंलक्षणानि द्वाराणि ? सुचारुगारुत्मततोरणानि सुष्ठ अत्यर्थ चारूणि मनोज्ञानि गरुडोद्गारसत्कानि तोरणानि यत्र तानि सुचारुगारुत्मततोरणानि । उत्प्रेक्षते-देवीषु रुद्धाग्रपथासु १२ रुद्धाग्रमार्गासु सतीषु रोषागभङ्गभांजि उत्पाटितभृकुटिसंयुक्तानि दिशां मुखानीव ॥ १८ ॥
अलंभि यस्योपरि शातकुंभ___ कुंभैरनुद्भिन्नसरोरुहाभा। नभः सरस्यां चपलैर्ध्वजौषै_ विसारिवैसारिणचारिमा च ॥ ४९॥ १८ अलंभि० यस्य मण्डपस्योपरि शातकुंभकुंभैः शातकुम्भस्य सुवर्णस्य कुंभैः कलशैनभःसरस्यां आकाशसरोवरे अनुद्भिन्नसरोरुहाभा अविकखरकमलशोभाऽलंभि प्राप्ता । कमलकोशानां कलशानां च सादृश्यं स्यात् । च अन्यत्, चपलैर्ध्वजौघर्विसारि-२२
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org