SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं सत्येsपि पुष्पप्रकरे पतद्भिरालम्बि रोलम्बगणैर्विलम्बः ॥ ४५ ॥ विश्वा० रोलंबगणैर्भ्रमरसमूहैः सत्येऽपि पुष्पप्रकरे पतद्भिः सद्भिः विलंब आलंबि अवलम्बितः । किं कृत्वा ? यदौपाधिकपुष्पपुंजात् यस्य मंडपस्य कृत्रिमकुसुमसमूहात् विश्वां समग्रां ६ अविश्वासमयीं नीतिं न्यायं अधीत्य अभ्यस्य । अविश्वासं भयो मूलमिति नीतिः ॥ ४५ ॥ जगज्जनो येन पुराखिलोऽपि, व्यलोपि तं यत्र विकीर्णमन्तः । ममर्द पुष्पप्रकरापदेशं, पदैः स्मरेषुत्रजमेष युक्तम् ॥ ४६ ॥ ९ १८ १०६ १२ जग० येन स्मरेषुत्रजेन स्मरस्य कामस्य इषवो बाणास्तासां जेन समूहेन पुरा पूर्वं अखिलोऽपि समस्तोऽपि जगज्जनो व्यलोपि लुप्तः । एष जगज्जनः तं स्मरेषुत्रजं तत्र मंडपे अन्त१५ मध्ये विकीर्णं विक्षिप्तं संतं पदैर्युक्तं ममर्द । किंलक्षणं स्मरेषुव्रजम् ? पुष्पप्रकारापदेशं पुष्पाणां प्रकरः समूहः एव अपदेशो मिषं यस्य तं पु० । कामस्य बाणा पुष्पाणीति प्रसिद्धिः ॥ ४६ ॥ यत्रादृतस्तंभ शिरोविभागा, भासिरे काञ्चनशालभंज्यः । प्रागेव संन्यस्तभुवो भविष्यजनौघसंमर्दभियेव देव्यः ॥ ४७ ॥ अप० यत्र मंडपे कांचनशालभंज्यः सुवर्णपुत्रिका बभा - २३ सिरे शोभिताः । किंलक्षणाः शालभंज्यः ? आहतस्तंभशिरो २१ Jain Education International [ तृतीयः For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy