SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सगेः ] टीका सहितम् १०५ पुनः किंविशिष्टो मुक्तागण: ? वितान लंबी चन्द्रोदयोते लम्बते इति वितानलंबी । कोऽर्थः ! मुक्तासमूहः समुद्र एव प्रायो वसति, देवैर्विवाहमंडपे कृतचन्द्रोदयतेषु मौक्तिकडुं - ३ बनानि यानि कृतानि तानि कृष्णरत्नभूमौ प्रतिबिंबितानि दृष्ट्वा सर्वः कोपि दध्यौ, समुद्रादुत्पन्नानि मुक्ताफलानि पुनरपि समुद्रं प्राप्तानीति भावः ॥ ४३ ॥ संदर्शितस्वस्तिकवास्तुमुक्तारदावलिः स्फाटिकभित्तिभाभिः । यद्भूरदूरप्रभुपादपाता, मुक्तां चिरात्तेन दिवं जहास ॥ ४४ ॥ सांद० यद्भूर्यस्य मंडपस्य भूर्यद्भूः स्फाटिकभित्तिभाभिः स्फटिकमणिरत्नभित्तेः प्रभाभिः करणभूताभिः दिवं खर्गं जहास १२ हसितवती । किंविशिष्टा यद्भूः ? संदर्शितस्वस्तिकवास्तुमुक्तारदावलिः खस्तिका वास्तु स्थानं यासां ताः स्वस्तिकवास्तवः संदशिताः प्रकटीकृताः खस्तिकवास्तुमुक्ता एव रदा दन्तास्तेषां १५ आवलिः श्रेणिर्यया सा संदर्शितस्वस्तिकवास्तुमुक्तारदावलिः दन्तदर्शनेन विशेषतो हास्यं ज्ञायते । पुनः किंलक्षणा यद्भूः ? अदूरप्रभुपादपाता अदूर आसन्नः प्रभोः श्रीऋषभस्य पाद- १८ पातश्चरणन्यासो यस्यां सा अदूरप्रभुपादपाता । किंविशिष्टां दिवम् ? तेन भगवता चिरात् चिरकालात् मुक्तामत एव हेतोर्दिवं प्रति पृथिव्या हास्यमिति भावः ॥ ४४ ॥ विश्वामविश्वासमयीमधीत्य, नीतिं यदौपाधिकपुष्पपुंजात् । Jain Education International For Private & Personal Use Only २१ २३ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy