SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०४ जैनकुमारसंभवं [ तृतीय: कुर्वाणा विबुधाः ? स्वं दास्यकर्मापि यशःसुगन्धि पुण्यानुबन्धीति अनुमोदमानाः; दासत्वेऽपि प्रभोः मण्डपकरणे१३ नास्माकं यशः पुण्यं वास्तीति हर्षवन्त इति भावः ॥ ४१ ॥ रत्नैः सयत्नं जनितैः स्वशक्त्या, तले यदीये त्रिदशैर्नबद्धे । रत्नप्रभेत्यागमिकी निजाख्या नया पृथिव्या न वृथा प्रपेदे ॥ ४२ ॥ रत्नैः :० अनया साक्षात् दृश्यमानया पृथ्व्या रत्नप्रभाया रतैः ९ प्रभा यस्याः सा रत्नप्रभा इति आगमिकी आगमसंबन्धिनी निजाख्या आत्मीयाभिधानं वृथा न प्रपेदे । क सति ? यदीये यस्य मंडपस्य तले त्रिदशैर्देवै रतैः करणभूतैर्निबद्धे सति, किं१२ विशिष्टै रतैः ? स्वशक्त्या स्वसामर्थ्येन सयत्नं यथा भवति तथा जनितैरुत्पादितैः ॥ ४२ ॥ वैर्यवर्यद्युतिभाजि भूमौ वितानलंबी प्रतिबिंबिताङ्गः । मुक्तागणो वारिधिवारिमध्यनिवासलीलां पुनराप यत्र ॥ ४३ ॥ १८ वैडूर्य ० यत्र यस्मिन् मण्डपे मुक्तागणो मौक्तिकसमूहो वारिधिवारिमध्ये समुद्रजलमध्ये निवासलीलां पुनर्द्वितीयवेलं प्राप प्राप्तः । किंलक्षणो मुक्तागण: ? भूमौ प्रतिबिम्बिताङ्गः, किंलक्षणायां भूमौ ? वैडूर्यवर्यद्युतिभाजि वैडूर्यरत्नानां वर्यां २२ प्रधानां द्युतिं कान्तिं भजतीत्येवंशीला, तस्यां वैडूर्यद्युतिभाजि । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy