________________
सर्गः] टीकया सहितम्
१०३ मनोभुवा चित्तोत्पन्नया कल्पनयैव क्षणात् तत्कालमेव आविरभावि प्रगटीबभूवे, तन्नाद्भुतं नाश्चय, सा शची खभर्तुः हृदये नित्यं वसंती सति खलु निश्चितं सर्व वेद जानाति, ३ हृदये वसतीति लक्षणया ज्ञेयं, विदोऽग्रेतिस्थाने अद ज्ञेयः ॥ ३९॥ स्वयं प्रभूपास्तिपरः शचीशः,
शची शुचिप्राज्यपरिच्छदां यः। न्यदिक्षतोपस्करणे कुमार्यो
र्यो हि नारीष्वधिकारणीयाः॥४०॥ ९ खयं० शचीश इन्द्रः शची इन्द्राणी सुमंगला सुनन्दयोरुपस्करणे अलंकरणे न्यदिक्षत आदिष्टवान् । किंलक्षण इन्द्रः? खयं प्रभूपास्तिपर आत्मना खामिसेवातत्परः! किंविशिष्टां १२ शचीम् ? शुचिप्राज्यपरिच्छदां पवित्रप्रभूतपरिवारां, हि निश्चितं नार्यः स्त्रियो नारीषु स्त्रीषु अधिकारणीया । उक्तं च-सदाप्रमाणं पुरुषा नृपांगणे रणे वणिज्येषु विचारकर्मसु । विवाह- १५ कर्मण्यथ गेहकर्मणि प्रमाणभूमिं दधते पुनः स्त्रियः॥ ४० ॥
तदाभियोग्या विबुधा वितेनु
मणीमयं मण्डपमिन्द्रवाचा । खं दास्यकर्माऽपि यशः सुगन्धि, .
- पुण्यानुबन्धीत्यनुमोदमानाः॥४१॥ । तदा० तदा तस्मिन्नवसरे आभियोग्या विबुधा आदेशकारिणो देवा इन्द्रवाचा मणीमयं मण्डपं तेनुश्चक्रुः । किं- २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org