________________
सर्गः] टीकया सहितम् को 'व्याङ्परे रम' (सि० ३।३।१०५) इति सूत्रेण परस्मैपदी स्यात् अन्यथा त्वात्मनेपदी ज्ञेयः ॥ ३४ ॥
खं भोगकर्माथ विपाककाल्यं, ... जाननजोषिष्ट जिनः सजोषम् । अताविके कर्मणि धीरचित्ताः,
प्रायेण नोत्फुल्लमुखीभवन्ति ॥ ३५॥ ६ खं० अथानन्तरं स भगवन् जोषं मौनं अजोषिष्ट असेविष्ट, किं कुर्वन् भगवान् ? खं भोगकर्म विपाककाल्यं विपाककालप्राप्त जानन् , विपाककाले साधुर्यप्रत्यये (सि०९ ७।१।१५) विपाककाल्यमिति स्यात् । धीरचिचा गंभीरनरा अतात्त्विके परमार्थरहिते कर्मणि कार्ये प्रायेण न उत्फुल्लमुखीभवन्ति, प्रहसितवदना न स्युरित्यर्थः ॥ ३५ ॥
इन्द्रोऽवसाय व्यवसायसिद्धिं,
स्वस्येंगितैर्भागवतैस्तुतोष । भृत्यो हि भर्तुः किल कालवेदी,
नेदीयसीं वाक्फलसिद्धिमेति ॥ ३६॥ इन्द्रो० इन्द्रस्तु तोषहृष्टः, किं कृत्वा ? भागवतैर्भगवत्संबन्धिभिरिंगितैश्चेष्टितैः खस्यात्मनोध्यवसायसिद्धिं उपक्रमसिद्धिं १८ अवसाय ज्ञात्वा । अनिषिद्धं अनुमतमिति न्यायात् खामिनस्तदनुरूपचेष्टां दृष्ट्वा इत्यर्थः । हि यस्मात् कारणात्, किल इति सत्ये, भृत्यः सेवकः भर्तुः खामिनः कालवेदी अवसरज्ञो २१ नेदीयसी. प्रत्यासन्नां वाक्फलसिद्धिं एति प्रामोति । समये कथितं सर्वः कोपि मन्यत इति भावः ॥ ३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org