SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभव [तृतीयः त्वत्तः प्रभोः स्वासहनात्पलाय्य, रागः श्रितस्तुंबरुनारदादीन् ।। गुणावलीगानमिषेण देव, __ तदा तदास्यात्तव संगसीष्ट ॥ ३३ ॥ त्वत्तः० हे देव ! रागस्तदा तस्मिन्नवसरे तदा स्यात्तेषां ६ तुम्बरुनारदादीनां मुखात् गुणावलीगानमिषेण तव संगसीष्ट, तव सङ्गतो भूयात् । किंविशिष्टो रागः ? खासहनात् खः खकीयः असहनः शत्रुस्तस्मादेवं विधात्प्रभोः समर्थत्वात् त्वत्तः ९ पलाय्य पलायनं कृत्वा तुंबरनारदादीन् श्रित आश्रितः । अत्र शब्दछलं ज्ञेयम् । रागो द्वेषसहचारी श्रीरागादिर्वा, तुंबरनारदौ यदा त्वदने गीतं गास्यतस्तदा सोपि रागस्तव गोचरो १२ भविष्यति, विवाहाद्युत्सवे परस्परमसमंजसानि भज्यन्त इति भावः ॥ ३३ ॥ एवं विवाहे तव हेतवः स्यु रन्येऽपि भावा भुवनप्रसत्तेः । यथोचितं तत्प्रविधेहि धीम 1, नितीरयित्वा विरराम वज्री ॥ ३४ ॥ 16 एवं० हे नाथ ! एवं अमुना प्रकारेण अन्येऽपि भावा विवाहसत्कास्तव विवाहे भुवनप्रसत्तेस्त्रिभुवने लक्षणया सौख्यस्य हेतवः कारणानि स्युः, तत् तस्मात् कारणात् हे धीमन् २॥धीर्बुद्धिर्विद्यते यस्य स धीमान् तस्य संबोधनं क्रियते हे धीमन् ! यथोचितं यथायोग्यं कुरु, वजी इन्द्रस्तुतेरनु इति २३ पूर्वोक्तं ईरयित्वा कथयित्वा विरराम निवृत्तः । रम्धातुर्विपूर्व १५ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy